जीवहिंसा सुरापानमगम्यागमनं तथा बलिराज्ये तु नरकद्वाराण्युक्तानि संत्यजेत्
ततोऽर्द्धरात्रसमये स्वयं राजा व्रजेत्पुरम् बलिराज्यप्रमोदं च दृष्ट्वा स्वगृहमाव्रजेत्
एवं गते निशीथे च जने निद्रार्द्धलोचने निष्कास्यते प्रदृष्टाभिरलक्ष्मीः स्वगृहांऽगणात् ।। 2.4.9.
दंडैकरजनीयोगे दर्शः स्यात्तु परेऽहनि
* ये वैष्णवाऽवैष्णवाश्च बलिराज्योत्सवं नराः
रात्रौ जागरणं कुर्यात्पुराणपठनादिभिः
सुवेषः सत्कथागीतैर्दानैश्च दिवसं नयेत्
शंकरस्तु पुरा द्यूतं ससर्ज सुमनोहरम्
बलिराज्यदिनस्याऽपि माहात्म्यं शृणु तत्त्वतः
यदि मोहान्न कुर्वीत स याति यमसादनम्
तेन दत्ता वामनाय भूमिः स्वमस्तकान्विता
कार्तिके मासि शुक्लायां प्रतिपद्यां यतो भवान्
वरं ददामि ते राजन्नित्युक्त्वाऽदाद्वरं तदा
एतस्यां ये करिष्यंति तैलस्नानादिकार्चनम्
तदाप्रभृति लोकेऽस्मिन्प्रसिद्धा प्रतिपत्तिथिः
तत्राभ्यंगं न कुर्वीत अन्यथा मृतिमाप्नुयात् । । 2.4.10.
मांगल्यं तद्दिने चेत्स्याद्वित्तादिस्तस्य नश्यति
तस्यां यद्यथ चाऽऽर्तिक्यं नारी मोहात्करिष्यति
अविद्धा प्रतिपच्चेत्स्यान्मुहूर्तमपरेऽहनि
प्रतिपत्स्वल्पमात्राऽपि यदि न स्यात्परेऽहनि
तद्दिने गृहमध्ये तु कुर्यान्मूर्तिं तदांगणे
आर्तिक्यं तत्र संस्थाप्य एवं कुर्याद्विधानतः
न मांगल्यं भवेत्तेषां यावत्स्याद्वत्सरं ध्रुवम्
आवर्षं तद्भवेत्तस्य तस्मान्मंगलमाचरेत्
कुरु दीपोत्सवं रम्यं त्रयोदश्यादिकेषु च
गौर्या जित्वा पुरा शंभुर्नग्नो द्यूते विसर्जितः 2.4.10.
द्यूतं निषिद्धं सर्वत्र हित्वा प्रतिपदं बुधाः
भवान्याऽभ्यर्थिता लक्ष्मीर्धेनुरूपेण संस्थिता
भूषणीयास्तदा गावो वर्ज्या वहनदोहनात्
गोवर्द्धन धराऽऽधार गोकुलत्राणकारक