लक्ष्म्या सार्द्धं ततो देवा जग्मुः क्षीरोदधौ पुनः
रचनीयाः सूत्रगर्भाः पर्यंकाश्च सुतूलिकाः
स्थापयेत्तान्सुराँल्लक्ष्मीं वेदघोषसमन्वितः 2.4.9.
अतोऽत्र विधिवत्कार्या तुष्ट्यै तु सुखसुप्तिका
कुर्यात्तस्य गृहं मुक्त्वा तत्पद्मा क्वाऽपि न व्रजेत्
धनचिन्ता विहीनास्ते कथं रात्रौ स्वपंति हि
स तु दारिद्र्यनिर्मुक्तः स्वजातौ स्यात्प्रतिष्ठितः
पाचयित्वा गव्यदुग्धं सितां दत्त्वा यथोचिताम्
अन्यच्चतुर्विधं भक्ष्यं दद्याच्छ्रीः प्रीयतामिति
प्रबोधसमये लक्ष्मीं बोधयित्वा भुनक्ति या
अभयं प्राप्य विप्रेभ्यो विष्णुभीताः सुरद्विषः
त्वं ज्योतिः श्रीरवीन्द्वग्निविद्युत्सौवर्णतारकाः
या लक्ष्मीर्दिवसे पुण्ये दीपावल्यां च भूतले 2.4.9.
दीपदानं ततः कुर्यात्प्रदोषे च तथोल्मुकम्
दीपवृक्षास्तथा कार्याः शक्त्या देवगृहादिषु
वृक्षमूलेषु गोष्ठेषु चत्वरेषु गृहेषु च
सर्वं पुरमलंकृत्य प्रदोषे तदनन्तरम्
अलंकृतेन भोक्तव्यं नववस्त्रोपशोभिना
अद्य राज्यं बलेर्लोका यथेच्छं क्रीड्यतामिति
तेभ्यो दद्यात्क्रीडनकं ततः पश्येच्छुभाशुभ्य
जीवहिंसा सुरापानमगम्यागमनं तथा बलिराज्ये तु नरकद्वाराण्युक्तानि संत्यजेत्
ततोऽर्द्धरात्रसमये स्वयं राजा व्रजेत्पुरम् बलिराज्यप्रमोदं च दृष्ट्वा स्वगृहमाव्रजेत्
एवं गते निशीथे च जने निद्रार्द्धलोचने निष्कास्यते प्रदृष्टाभिरलक्ष्मीः स्वगृहांऽगणात् ।। 2.4.9.
दंडैकरजनीयोगे दर्शः स्यात्तु परेऽहनि
* ये वैष्णवाऽवैष्णवाश्च बलिराज्योत्सवं नराः
रात्रौ जागरणं कुर्यात्पुराणपठनादिभिः
सुवेषः सत्कथागीतैर्दानैश्च दिवसं नयेत्
शंकरस्तु पुरा द्यूतं ससर्ज सुमनोहरम्
बलिराज्यदिनस्याऽपि माहात्म्यं शृणु तत्त्वतः
यदि मोहान्न कुर्वीत स याति यमसादनम्