स कदाचित्तपोविघ्नं कर्तुकामेन योगिनाम् 1.3.1.5.
लावण्यगुणसंपूर्णामालोक्य कमलेक्षणाम्
स्प्रष्टुकामं तमालोक्य ब्रह्माणं कमलासनम्
अस्यां प्रदक्षिणां भक्त्या कुर्वाणायां प्रजापतेः
सा बाला पक्षिणी भूत्वा गगनं समगाहत
शरणं याचमाना सा शोणाद्रिमिममाश्रयत्
रक्ष मामरुणाद्रीश शरण्य शरणागताम्
उदभूत्स्थावराल्लिंगाद्व्याधः कश्चिद्धनुर्द्धरः
निषादे पुरतो दृष्टे मोहस्तस्य ननाश हि
नमश्चक्रे शरण्याय शोणाद्रिपतये तदा
अरुणाचलरूपाय भक्ववश्याय शंभवे 1.3.1.5.
त्वदन्यः कः प्रभुः कर्तुमशक्यं चापि देहिनाम्
अन्यं वा सृज विश्वात्मन्ब्रह्माणं लोकसृष्टये
उवाच करुणामूर्तिर्भूत्वा चंद्रार्द्धशेखरः
कं वा रागादयो दोषा न बाधेरन्प्रभुस्थितम्
भजस्व तैजसं लिंगं सर्वदोषनिवृत्तये
विनश्यति क्षणात्सर्वमरुणाचलदर्शनात्
अरुणाद्रिरयं नृणां सर्वकल्मषनाशनः
संदृश्यः कश्चिदेवाहमरुणाद्रिरयं स्वयम्
भवेत्सर्वाघनाशश्च लाभश्च ज्ञानचक्षुषः
अत्र स्नातः पुरा ब्रह्मन्मोहोऽगाज्जगतीपतेः 1.3.1.5.
मौनी प्रदक्षिणं कृत्वा विश्वात्मन्भव विज्वरः
इति वचनमुदीर्य विश्वनाथं स्थितमरुणाचलरूपतो महेशम्
इममरुणगिरीशमेष वेधा यमनियमादिविशुद्धचित्तयोगः
शेषपर्यंकशयने कदाचिन्नैव बुध्यत
तमसा पूरितं विश्वमपज्ञातमलक्षणम्
अहो कष्टमिदं रूपं तमसा विश्वमोहनम्
ज्योतिषः पुरुषं पूर्णमपश्यंतं सुरा अपि
इति निश्चित्य मनसा देवदेवमुमापतिम्
ततः प्रसन्नो भगवांस्तेजोराशिर्महेश्वरः