इषासितचतुर्दश्यामिन्दुक्षयतिथावपि
कुर्यात्संलग्नमेतच्च दीपोत्सवदिनत्रयम्
वरं याचस्व भद्रं ते यद्यन्मनसि वर्तते 2.4.9.
आत्मार्थं किं याचनीयं सर्वं दत्तं मया तथा
मयाऽद्य ते धरा दत्ता वामनच्छद्मरूपिणे
तस्माद्भूमितले राज्यमस्तु घस्रत्रये हरे
मद्राज्ये ये दीपदानं भुवि कुर्वंति मानवाः
मम राज्ये गृहे यैषामंधकारः पतिष्यति
चतुर्दश्यां च ये दीपान्नरकाय ददंति च
बलिराज्यं समासाद्य यैर्न दीपावलिः कृता
बलिराज्ये तु ये लोकाः शोकाऽनुत्साहकारिणः
चतुर्दशीत्रये राज्यं बलेरस्त्विति याचयेत् ददावतिथयेंद्राय बलिं पातालवासिनम्
दत्तं दैत्यपतेरित्थं हरिणा तद्दिनत्रयम् 2.4.9.
महारात्रिः समुत्पन्ना चतुर्दश्यां मुनीश्वराः
बलिराज्यं समासाद्य यक्षगंधर्वकिन्नराः
सर्व एव प्रहृष्यंति नृत्यंति च निशामुखे
बलिराज्यं समासाद्य यथा लोकाः सुहर्षिताः
तुलासंस्थे सहस्रांशौ प्रदोषे भूतदर्शयोः
नरकस्थास्तु ये प्रेतास्ते मार्गं तु व्रतात्सदा
आश्विने मासि भूतादितिथयः कीर्तितास्त्रयः
यदि स्युः संगवादर्वागेताश्च तिथयस्त्रयः
कौमोदिन्यास्तु माहात्म्यं प्रष्टुमिच्छामहे द्विजाः
किमर्थं क्रियते सा तु तस्याः का देवता भवेत् 2.4.9.
प्रहर्षः कोऽत्र निर्दिष्टः क्रीडा काऽत्र प्रकीर्तिता
स्नात्वा देवान्पितॄन्भक्त्या संपूज्याऽथ प्रणम्य च
कृत्वा तु पार्वणश्राद्धं दधिक्षीरघृतादिभिः
ततः प्रदोषसमये पूजयेदिंदिरां शुभाम्
नानापुष्पैः पल्लवैश्च चित्रैश्चाऽपि विचित्रितम्
संपूज्या देवनार्योऽपि वहुभिश्चोपचारकैः
अस्मिन्नहनि सर्वेऽपि विष्णुना मोचिताः पुरा