यमाय धर्मराजाय मृत्यवे चाऽन्तकाय च
औदुंबराय दध्नाय नीलाय परमेष्ठिने
चतुर्दशैते मन्त्राः स्युः प्रत्येकं च नमोऽन्विताः 2.4.9.
यज्ञोपवीतिना कार्यं प्राचीनावीतिनाऽथवा
जीवत्पिताऽपि कुर्वीत तर्पणं यमभीष्मयोः
* अत्रैव लक्ष्मीकामस्य विधिः स्नाने मयोच्यते
यदा स्नाति तदाऽभ्यंगस्नानं कुर्याद्विधूदये। ऊर्ज्जशुक्लद्वितीयायां तिथौ च स्वातियुग्मगे
मानवो मंगलस्नायी नैव लक्ष्म्या वियुज्यते
इंदुक्षयेऽपि संक्रातौ रवौ पाते दिनक्षये
माषपत्रस्य शाकं वै भुक्त्वा तस्मिन्दिने नरः
इषासितचतुर्दश्यामिन्दुक्षयतिथावपि
कुर्यात्संलग्नमेतच्च दीपोत्सवदिनत्रयम्
वरं याचस्व भद्रं ते यद्यन्मनसि वर्तते 2.4.9.
आत्मार्थं किं याचनीयं सर्वं दत्तं मया तथा
मयाऽद्य ते धरा दत्ता वामनच्छद्मरूपिणे
तस्माद्भूमितले राज्यमस्तु घस्रत्रये हरे
मद्राज्ये ये दीपदानं भुवि कुर्वंति मानवाः
मम राज्ये गृहे यैषामंधकारः पतिष्यति
चतुर्दश्यां च ये दीपान्नरकाय ददंति च
बलिराज्यं समासाद्य यैर्न दीपावलिः कृता
बलिराज्ये तु ये लोकाः शोकाऽनुत्साहकारिणः
चतुर्दशीत्रये राज्यं बलेरस्त्विति याचयेत् ददावतिथयेंद्राय बलिं पातालवासिनम्
दत्तं दैत्यपतेरित्थं हरिणा तद्दिनत्रयम् 2.4.9.
महारात्रिः समुत्पन्ना चतुर्दश्यां मुनीश्वराः
बलिराज्यं समासाद्य यक्षगंधर्वकिन्नराः
सर्व एव प्रहृष्यंति नृत्यंति च निशामुखे
बलिराज्यं समासाद्य यथा लोकाः सुहर्षिताः
तुलासंस्थे सहस्रांशौ प्रदोषे भूतदर्शयोः
नरकस्थास्तु ये प्रेतास्ते मार्गं तु व्रतात्सदा
आश्विने मासि भूतादितिथयः कीर्तितास्त्रयः