अरुणोदयतोऽन्यत्र रिक्तायां स्नाति यो नरः
तथा कृष्णचतुर्दश्यामाश्विनेऽर्कोदये सुराः
यदा चतुर्दशी न स्याद्द्विदिने चेद्विधूदये 2.4.9.
बलात्काराद्धठाद्वाऽपि शिष्टत्वान्न करोति चेत्
तैले लक्ष्मीर्जले गंगा दीपावल्याश्चतुर्दशीम्
अपामार्गमथो तुंबीं प्रपुन्नाडमथाऽपरम्
वारत्रयं त्रिवारं च पठित्वा मन्त्रमुत्तमम्
सीतालोष्टसमायुक्त सकंटकदलान्वित अपामार्गं प्रपुन्नाडं भ्रामयेच्छिरसोपरि
स्नात्वार्द्रवाससा दद्याद्दीपकं मृत्युपुत्रयोः तुष्टौ स्यातां चतुर्दश्यां दीपदानेन मृत्युजौ
इष्टवंधुजनैः सार्द्धमेतत्स्नानं समाचरेत्
यमाय धर्मराजाय मृत्यवे चाऽन्तकाय च
औदुंबराय दध्नाय नीलाय परमेष्ठिने
चतुर्दशैते मन्त्राः स्युः प्रत्येकं च नमोऽन्विताः 2.4.9.
यज्ञोपवीतिना कार्यं प्राचीनावीतिनाऽथवा
जीवत्पिताऽपि कुर्वीत तर्पणं यमभीष्मयोः
* अत्रैव लक्ष्मीकामस्य विधिः स्नाने मयोच्यते
यदा स्नाति तदाऽभ्यंगस्नानं कुर्याद्विधूदये। ऊर्ज्जशुक्लद्वितीयायां तिथौ च स्वातियुग्मगे
मानवो मंगलस्नायी नैव लक्ष्म्या वियुज्यते
इंदुक्षयेऽपि संक्रातौ रवौ पाते दिनक्षये
माषपत्रस्य शाकं वै भुक्त्वा तस्मिन्दिने नरः
इषासितचतुर्दश्यामिन्दुक्षयतिथावपि
कुर्यात्संलग्नमेतच्च दीपोत्सवदिनत्रयम्
वरं याचस्व भद्रं ते यद्यन्मनसि वर्तते 2.4.9.
आत्मार्थं किं याचनीयं सर्वं दत्तं मया तथा
मयाऽद्य ते धरा दत्ता वामनच्छद्मरूपिणे
तस्माद्भूमितले राज्यमस्तु घस्रत्रये हरे
मद्राज्ये ये दीपदानं भुवि कुर्वंति मानवाः
मम राज्ये गृहे यैषामंधकारः पतिष्यति
चतुर्दश्यां च ये दीपान्नरकाय ददंति च
बलिराज्यं समासाद्य यैर्न दीपावलिः कृता