शंसंतौ तुलसीं पुण्यां जग्मतुर्मुनिपुंगव
तस्मान्नारद मासेऽस्मिन्कार्तिके हरितुष्टिदे
एवमंग व्रतान्येव प्रोक्तानि मुनिसत्तम 2.4.8.
गोधूलिकालसंयुक्ता द्वादशी वत्सपूजने
वत्सपूजा वटे चैव कर्तव्या प्रथमेऽहनि चंदनादिभिरालिप्य पुष्पमालाभिरर्चयेत्
तद्दिने तैलपक्वं च स्थालीपक्वं युधिष्ठिर
दिनांते सूर्यबिंबार्धादुभयत्र घटीदलम्
नानादीपान्प्रकल्प्याऽऽदौ स्वर्णपात्रादि संस्थितान्
लापयित्वा सर्वदीपानुत्तराभिमुखान्न्यसेत्
ज्वाला चेद्दक्षिणासंस्था सतेजस्का शिखान्विता
कार्तिके कृष्णपत्रे तु द्वादश्यादिषु पंचसु
पक्षं संसूचयत्यादिर्द्वितीयो मासमेव च वर्षं तु पंचमो दीपः शुभाशुभं विनिर्णयेत्
सूर्यांशसंभवा दीपा अंधकारविनाशकाः ।। 2.4.9.
अभिमंत्र्य च मंत्रेण ततो नीराजयेत्क्रमात्
आदौ देवांस्ततो विप्रान्हस्तिनश्च तुरंगमान्
ततो नीराजितान्दीपान्स्वस्वस्थानेषु विन्यसेत् अतिरक्तेषु युद्धानि मृत्युः कृष्णशिखेषु च
एकांगीनाम गोपाला तयैतच्च व्रतं कृतम्
* तस्माद्गोपूजनं कार्यं द्वादश्यां कार्तिकस्य तु
ते गोव्रतप्रभावेन न गोभिर्विच्युता भुवि
दीपोत्सव समीपे तु व्रतमेतत्समाचरेत्
प्रातः स्नात्वा त्रयोदश्यां कृत्वा वै दंतधावनम्
कार्य एतद्व्रतस्यांते तथा गोवर्द्धनोत्सवः
आश्विनस्याऽसिते पक्षे त्रयोदश्यां निशामुखे 2.4.9.
पुरा हेमनकस्यैव बालकश्चाऽपमृत्युतः
दूता ऊचुः यथा न जीविताद्भ्रश्येदीदृशे तु महोत्सवे
आश्विनस्याऽसिते पक्षे त्रयोदश्यां निशामुखे
मन्त्रेणाऽनेन भो दूताः समानेयः स नोत्सवे
मृत्युना पाशदंडाभ्यां कालेन च मया सह
मन्त्रेणानेन यो दीपं द्वारदेशे प्रयच्छति
पक्षे प्रत्यूषसमये स्नानं कुर्यात्प्रयत्नतः