सा तु देवगणैः सर्वैर्विष्णुवत्पूज्यते प्रिया
तस्मात्तस्या नमस्कारो मया विप्र कृतस्ततः
आराददृश्यत महद्विमानं सूर्यवर्चसम् 2.4.8.
तथैव तस्माद्वृक्षाच्च पुरुषौ द्वौ विनिर्गतौ
प्रणामं चक्रतुस्तौ हि हरिमेधसुमेधयोः
ऊचतुर्विस्मयाविष्टौ तावुभौ देवसन्निभौ
हरिमेधसुमेधसावूचतुः मंदारमालां तरुणां धारयंतौ तथाऽमरौ
इत्युक्तौ ब्राह्मणाभ्यां तावूचतुर्वृक्षनिर्गतौ
बंध्वादयस्तथा चैव युवामेव न संशयः
अप्सरोगणसंवीतः कदाचिन्नंदन वनम्
रेमिरे देववनिता यथाकामं मया सह
तपतो रोमशस्यैव तद्दृष्ट्वा कुपितो मुनिः
अयमेव दुराचारः शापार्ह इति चाऽब्रवीत् 2.4.8.
प्रसादितो मया सोऽथ विशापमपि दत्तवान्
यदा शृणोषि सद्यस्त्वं विमुक्तिं यास्यसे पराम्
वसाम्यत्र वटे दैवाद्भवद्दर्शनतो ध्रुवम्
अयं मुनिवरः पूर्वं गुरुशुश्रूषणे रतः
युष्मत्प्रसादादधुना ब्रह्मशापाद्विमोचितः
उत्तरोत्तरपुण्यानि वर्धंते च दिनेदिने
तावनुज्ञाप्य तौ धाम जग्मतुः परया मुदा
शंसंतौ तुलसीं पुण्यां जग्मतुर्मुनिपुंगव
तस्मान्नारद मासेऽस्मिन्कार्तिके हरितुष्टिदे
एवमंग व्रतान्येव प्रोक्तानि मुनिसत्तम 2.4.8.
गोधूलिकालसंयुक्ता द्वादशी वत्सपूजने
वत्सपूजा वटे चैव कर्तव्या प्रथमेऽहनि चंदनादिभिरालिप्य पुष्पमालाभिरर्चयेत्
तद्दिने तैलपक्वं च स्थालीपक्वं युधिष्ठिर
दिनांते सूर्यबिंबार्धादुभयत्र घटीदलम्
नानादीपान्प्रकल्प्याऽऽदौ स्वर्णपात्रादि संस्थितान्
लापयित्वा सर्वदीपानुत्तराभिमुखान्न्यसेत्
ज्वाला चेद्दक्षिणासंस्था सतेजस्का शिखान्विता