तुलस्या महिमां यस्तु शृणुयान्नित्यमादृतः
अत्रैवोदाहरंतीममितिहासं पुरातनम्
पुरा काश्मीरदेशे तु ब्राह्मणौ संबभूवतुः 2.4.8.
सर्वभूतदयायुक्तौ सर्वतत्त्वार्थवेदिनौ
गच्छतावेकतो विप्रौ कांतारे श्रमविह्वलौ
तयोः सुमेधास्तद्दृष्ट्वा तुलसीकाननं महत्
दृष्ट्वैतद्धरिमेधास्तु उवाच परया मुदा
हरिमेधा उवाच किमर्थं विप्र देवेषु तीर्थेषु च व्रतेषु च
आतपो बाधते ह्यावां गत्वैतद्वटसन्निधौ
तस्यच्छायां समाश्रित्य वक्ष्यामि ते यथार्थतः
वटं जगाम धर्मज्ञो महत्कोटरसंयुतम्
श्रूयतां विप्रशार्दूल तुलस्यास्तूत्तमां कथाम्
पुरा दुर्वाससः शापाद्गतैश्वर्ये पुरंदरे 2.4.8.
ऐरावतः कल्पतरुश्चन्द्रमाः कमला तथा
हरीतक्यादयश्चाऽपि दिव्या ओषधयस्तथा
ततः पीयूषकलशमजरामरदायकम् अवेक्ष्य मनसा सद्यः परां निर्वृतिमाप ह
तस्मिन्पीयूषकलश आनन्दास्रोदबिन्दवः
सर्व लक्षणसंपन्ना सर्वाभरणभूषिता
तत्रोत्पन्नां तथा लक्ष्मीं तुलसीं च ददुर्हरेः
ततोऽतीव प्रियकरा तुलसी जगतां पतेः
सा तु देवगणैः सर्वैर्विष्णुवत्पूज्यते प्रिया
तस्मात्तस्या नमस्कारो मया विप्र कृतस्ततः
आराददृश्यत महद्विमानं सूर्यवर्चसम् 2.4.8.
तथैव तस्माद्वृक्षाच्च पुरुषौ द्वौ विनिर्गतौ
प्रणामं चक्रतुस्तौ हि हरिमेधसुमेधयोः
ऊचतुर्विस्मयाविष्टौ तावुभौ देवसन्निभौ
हरिमेधसुमेधसावूचतुः मंदारमालां तरुणां धारयंतौ तथाऽमरौ
इत्युक्तौ ब्राह्मणाभ्यां तावूचतुर्वृक्षनिर्गतौ
बंध्वादयस्तथा चैव युवामेव न संशयः
अप्सरोगणसंवीतः कदाचिन्नंदन वनम्