ऋणमोचनसंज्ञं तु सरयूतीरसंगतम्
ब्रह्मकुण्डान्मुनिवर धनुःसप्तशतेन च
तत्र पूर्वं मुनिवरो लोमशो नाम नामतः
ततः स ऋणनिर्मुक्तो बभूव गतकल्मषः
पश्यन्त्वेतस्य महतो गुणांस्तीर्थवरस्य वै
यत्र स्नानेन जंतूनामृणनिर्यातनं भवेत्
ऐहिकं पारलौकिक्यं यदृणत्रितयं नृणाम्
सर्वतीर्थोत्तमं चैतत्सद्यः प्रत्ययकारकम्
तस्मादत्र विधानेन स्नानं दानं च शक्तितः 2.8.2.
स्नातव्यं च सुवर्णं च देयं वस्त्रादि शक्तितः
अगस्त्य उवाच इत्युक्त्वा तीर्थमाहात्म्यं लोमशो मुनिसत्तमः
इत्येतत्कथितं विप्र ऋणमोचनसंज्ञकम् ऋणमोचनतीर्थं तु पूर्वतः सरयूजले
धनुर्द्विशत्या तीर्थं च पापमोचनसंज्ञकम् जायते तत्क्षणादेव नात्र कार्या विचारणा
मया तत्र मुनिश्रेष्ठ दृष्टं माहात्म्यमुत्तमम्
पांचालदेशसंभूतो नाम्ना नरहरिर्द्विजः
नाना विधानि पापानि ब्रह्महत्यादिकानि च
स कदाचित्साधुसंगात्तीर्थयात्राप्रसंगतः
पापमोचनतीर्थे तु स्नातः सत्संगतो द्विजः
दिवः पपात तन्मूर्ध्नि पुष्पवृष्टिर्मुनीश्वर 2.8.2.
तद्दृष्ट्वा महदाश्चर्यं मया च द्विजपुंगव
माघकृष्णचतुर्दश्यां तत्र स्नानं विशेषतः
अन्यदा(?) तु कृते स्नाने सर्वपापक्षयो भवेत्
पापमोचनतीर्थे तु पूर्वं तु सरयूजले
सहस्रधारासंज्ञं तु सर्वकिल्बिषनाशनम् प्राणानुत्सृज्य योगेन ययौ शेषात्मतां पुरा
सार्द्धंहस्तत्रयेणैव प्रमाणं धनुषो विदुः
कृष्णद्वैपायनो व्यासः पुनः पप्रच्छ कौतुकात्
शृण्वंस्तीर्थस्य माहात्म्यं न तृप्यति मनो मम
सहस्रधारातीर्थस्य समुत्पत्तिं महोदयात्
पुरा रामो रघुपतिर्देवकार्यं विधाय वै 2.8.2.
मया त्याज्यो भवेत्क्षिप्रमित्थं चक्रे स संविदम्