तत्रतत्र रतिं कुर्यान्नांधकारे कदाचन 2.4.7.
यः कुर्यात्कार्तिके विष्णोः पुरः कर्पूरदीपकम् 2.4.7.
गोपः कश्चिदमावास्यां दीपं प्रज्वाल्य शार्ङ्गिणः
त्वद्वागमृतपानेन तृषा भूयः प्रवर्धते
देवं दामोदरं पूज्य कोमलैस्तुलसीदलैः
भक्त्या विरहितो यस्तु सुवर्णादिभिरर्चयेत्
सर्वेषामपि वर्णानां भक्तिरेषा परा स्मृता
भक्त्या संपूजितो नित्यं तुलस्यास्तु दलार्धतः
विष्णुदासः पुरा भक्त्या तुलसीपूजनेन च
तुलस्याः शृणु माहात्म्यं पापघ्नं पुण्यवर्द्धनम्
संप्राप्ते कार्तिके मासि तुलस्याः पूजनं हरेः
तस्मात्सर्वप्रयत्नेन तुलस्याः कोमलैर्दलैः
रोपिता तुलसी यावत्कुरुते मूलविस्तरम् 2.4.8.
तुलसीपत्रसंयुक्तजले स्नानं चरेद्यदि
वृन्दावनं च कुरुते रोपणार्थं महामुने
तुलसीकाननं ब्रह्मन्गृहे यस्याऽवतिष्ठते
सर्वपापहरं पुण्यं कामदं तुलसीवनम्
तुलसीकाष्ठसंयुक्तं गन्धं यो धारयेन्नरः
तुलसीविपिनच्छाया यत्र चैव भवेद्द्विज
यत्कृते तुलसीपत्रं कर्णे शिरसि दृश्यते
तुलस्या महिमां यस्तु शृणुयान्नित्यमादृतः
अत्रैवोदाहरंतीममितिहासं पुरातनम्
पुरा काश्मीरदेशे तु ब्राह्मणौ संबभूवतुः 2.4.8.
सर्वभूतदयायुक्तौ सर्वतत्त्वार्थवेदिनौ
गच्छतावेकतो विप्रौ कांतारे श्रमविह्वलौ
तयोः सुमेधास्तद्दृष्ट्वा तुलसीकाननं महत्
दृष्ट्वैतद्धरिमेधास्तु उवाच परया मुदा
हरिमेधा उवाच किमर्थं विप्र देवेषु तीर्थेषु च व्रतेषु च
आतपो बाधते ह्यावां गत्वैतद्वटसन्निधौ
तस्यच्छायां समाश्रित्य वक्ष्यामि ते यथार्थतः