तेन पुण्यप्रभावेन स राजा मुनिसत्तम
सुपुत्रपौत्रस्वजनैर्बुभुजे सह भार्यया
स्त्रीभिः सह समारुह्य मोक्षमार्गं गतो मुने
विष्णुलोके विष्णुरिव प्रोच्यमानः सदाऽमरैः
तस्मात्तु कार्तिके मासि मानुष्यं प्राप्य दुर्लभम्
दास्यंति ये कार्तिकमासि मर्त्या व्योमप्रदीपं हरितुष्टयेऽत्र
अथाऽन्यच्च प्रवक्ष्यामि व्योमदीपस्य वैभवम्
आकाशादीपदानं तु कुर्वंतु ऋषिसत्तमाः ।। 2.4.7.
मन्त्रेणाऽनेन ये मर्त्याः पितृभ्यः खे तु दीपकम् उत्तमां गतिमित्थं ते दीपदानं मयेरितम् ।। 2.4.7.
ब्रह्मविष्णुशिवादीनां भवनेषु विशेषतः
तत्रतत्र रतिं कुर्यान्नांधकारे कदाचन 2.4.7.
यः कुर्यात्कार्तिके विष्णोः पुरः कर्पूरदीपकम् 2.4.7.
गोपः कश्चिदमावास्यां दीपं प्रज्वाल्य शार्ङ्गिणः
त्वद्वागमृतपानेन तृषा भूयः प्रवर्धते
देवं दामोदरं पूज्य कोमलैस्तुलसीदलैः
भक्त्या विरहितो यस्तु सुवर्णादिभिरर्चयेत्
सर्वेषामपि वर्णानां भक्तिरेषा परा स्मृता
भक्त्या संपूजितो नित्यं तुलस्यास्तु दलार्धतः
विष्णुदासः पुरा भक्त्या तुलसीपूजनेन च
तुलस्याः शृणु माहात्म्यं पापघ्नं पुण्यवर्द्धनम्
संप्राप्ते कार्तिके मासि तुलस्याः पूजनं हरेः
तस्मात्सर्वप्रयत्नेन तुलस्याः कोमलैर्दलैः
रोपिता तुलसी यावत्कुरुते मूलविस्तरम् 2.4.8.
तुलसीपत्रसंयुक्तजले स्नानं चरेद्यदि
वृन्दावनं च कुरुते रोपणार्थं महामुने
तुलसीकाननं ब्रह्मन्गृहे यस्याऽवतिष्ठते
सर्वपापहरं पुण्यं कामदं तुलसीवनम्
तुलसीकाष्ठसंयुक्तं गन्धं यो धारयेन्नरः
तुलसीविपिनच्छाया यत्र चैव भवेद्द्विज
यत्कृते तुलसीपत्रं कर्णे शिरसि दृश्यते