दत्त्वा चाकाशदीपं च श्रुत्वा चैव हरेः कथाम्
इत्येतत्सर्वमाख्यातं लुब्ध गच्छ यथासुखम्
व्रतं चाकाशदीपस्य चकार विधिवन्मुने
सुनंदोपि महाराज आश्चर्यं समुपागतः
प्रातः स्नात्वा शुचिर्भूत्वा कार्तिके मासि वै नृपः
रात्रौ दद्याद्व्योमदीपं मंत्रेणानेन वै नृपः
दामोदराय विश्वाय विश्वरूपधराय च निर्विघ्नं कुरु देवेश यावन्मासः समाप्यते
व्रतेनाऽनेन देवेश त्वयि भक्तिः प्रवर्द्धताम् 2.4.7.
ब्राह्मे मुहूर्ते च पुनर्व्योमदीपं ददाति हि
उत्सर्गस्य विधिं कृत्वा व्योम्नि दीपं समाप्य च
तेन पुण्यप्रभावेन स राजा मुनिसत्तम
सुपुत्रपौत्रस्वजनैर्बुभुजे सह भार्यया
स्त्रीभिः सह समारुह्य मोक्षमार्गं गतो मुने
विष्णुलोके विष्णुरिव प्रोच्यमानः सदाऽमरैः
तस्मात्तु कार्तिके मासि मानुष्यं प्राप्य दुर्लभम्
दास्यंति ये कार्तिकमासि मर्त्या व्योमप्रदीपं हरितुष्टयेऽत्र
अथाऽन्यच्च प्रवक्ष्यामि व्योमदीपस्य वैभवम्
आकाशादीपदानं तु कुर्वंतु ऋषिसत्तमाः ।। 2.4.7.
मन्त्रेणाऽनेन ये मर्त्याः पितृभ्यः खे तु दीपकम् उत्तमां गतिमित्थं ते दीपदानं मयेरितम् ।। 2.4.7.
ब्रह्मविष्णुशिवादीनां भवनेषु विशेषतः
तत्रतत्र रतिं कुर्यान्नांधकारे कदाचन 2.4.7.
यः कुर्यात्कार्तिके विष्णोः पुरः कर्पूरदीपकम् 2.4.7.
गोपः कश्चिदमावास्यां दीपं प्रज्वाल्य शार्ङ्गिणः
त्वद्वागमृतपानेन तृषा भूयः प्रवर्धते
देवं दामोदरं पूज्य कोमलैस्तुलसीदलैः
भक्त्या विरहितो यस्तु सुवर्णादिभिरर्चयेत्
सर्वेषामपि वर्णानां भक्तिरेषा परा स्मृता
भक्त्या संपूजितो नित्यं तुलस्यास्तु दलार्धतः
विष्णुदासः पुरा भक्त्या तुलसीपूजनेन च
तुलस्याः शृणु माहात्म्यं पापघ्नं पुण्यवर्द्धनम्