चन्द्रशर्माख्यविप्रस्य वचनात्कार्तिके सुधीः
दीपं दत्त्वा महाभक्त्या अशृणोच्च कथां निशि
राज्ञा दत्तं व्योमदीपं पश्यन्क्षणमतिष्ठत
शीघ्रमागत्य जग्राह तैलपात्रं सदीपकम्
तत्र पीत्वा तु तैलं च दीपं स्थाप्य स पक्षिराट्
तदानीं दैवयोगेन ग्रहीतुं पक्षिसत्तमम्
तदग्रे मुखदीपं च पश्यन्क्षणमतिष्ठत
राज्ञे सुकृतिनाम्ने च तौ वै शुश्रुवतुः क्षणम् 2.4.7.
मार्जारो जगृहे तत्र शाखामतरगतं खगम्
भग्नगात्रौ मृतौ तत्र पक्षिमार्जारकौ भुवि
तत्सर्वं लुब्धको दृष्ट्वा चौर्यार्थं समुपागतः
चंद्रशर्माणमाभाष्य इदं वचनमब्रवीत्
राज्ञा सुकृतिना दत्तं व्योमदीपं मनोहरम्
तैलं पीत्वा तु तत्पात्रं सदीपं तु मनोहरम्
मार्जारोऽप्यागतस्तत्र ग्रहीतुं पक्षिपुंगवम्
त्वन्मुखात्कथ्यमानां हि कथां शुश्रुवतुः क्षणम्
तौ वृक्षात्पतितौ मृत्युं प्राप्तौ च क्षणमात्रतः
तदाश्चर्यमहं दृष्ट्वा त्वां प्रष्टुं समुपागतः 2.4.7.
तिर्यग्योनिसमापन्नौ मुक्तौ केन च कर्मणा
शृणु लुब्ध प्रवक्ष्यामि तयोर्वृत्तांतमंजसा
देवशर्मा इति प्रोक्तो देवद्रव्याऽपहारकः
तस्मिन्देवालये प्राप्तं तैलं द्रव्यादिकं तथा
आयुर्नीत्वैवमेवाऽसौ ततः पंचत्वमागतः
निरुच्छ्वासं तथा प्राप्य असिपत्रवनं क्रमात्
अनुभूय च तान्सर्वान्ब्रह्मराक्षसतां गतः
एवं जन्मशतं प्राप्य भूमौ मार्जारतां गतः निर्मुक्ताऽखिलपापस्तु अगमद्धरिमंदिरम्
गृध्रोऽयं तु पुरा विप्रो मिथिले वेदपारगः
दासीसंगं चकारासौ वेश्यासंगं तथैव च 2.4.7.
कुंभीपाके महाघोरे स्थित्वा युगचतुष्टयम्
दैवेन चोदितो गृध्रस्तैलपानार्थमागतः