पितृवित्तक्षयकरो वंशच्छेदे कुठारकः
हारितं दुष्टसंसर्गात्ततो दुःखी स चाऽभवत्
अयोध्यामागतो वत्से महापापकरो द्विजः
द्यूतव्याजेन तेनाऽऽशु दीपो दत्तो हरेः पुरः
महापातककृद्वाऽपि गतवानभयं हरिम्
तथाऽन्यान्यपि दानानि कुरु भक्तिसमन्विता
साऽपि कुत्सवचः श्रुत्वा पश्चात्तापेन संयुता
पतंगोदयवेलायां कार्तिके स्नानमंभसि 2.4.7.
ततः कालांतरे चैव गतायुर्मृतिमागता
स्वर्गमार्गं गता सा स्त्री काले मोक्षमवाप ह
कार्तिके दीपदानं तु महापुण्यफलप्रदम्
दीपदानस्येतिहासं शृण्वन्वै मोक्षमाप्नुयात्
दीपदानस्य माहात्म्यं वक्तुं केनेह शक्यते
स्वस्याऽपि शक्तिराहित्ये परस्याऽपि प्रबोधनम्
दीपार्थं वर्तिकां तैलं पात्रं वा यो ददाति हि
स तु मोक्षमवाप्नोति नाऽत्र कार्या विचारणा
स्वस्यापि शक्तिराहित्ये परदीपं प्रबोधयेत्
वेश्या चेन्दुमतीनाम तस्या गेहेऽथ मूषिका 2.4.7.
तस्मात्सर्वप्रयत्नेन परदीपं प्रबोधयेत्
परदीपप्रबबोधस्य फलमीदृग्विधं मुने
परदीप प्रबोधस्य माहात्म्यमपि वै श्रुतम्
यस्य श्रवणमात्रेण दीपदाने मतिर्भवेत्
संप्राप्ते कार्तिके मासि प्रातःस्नानपरायणः
सर्वलोकाधिपो भूत्वा सर्वसंपत्समन्वितः
स्नानदानक्रियापूर्वं हरिमंदिरमस्तके कार्तिके शुद्धपूर्णायां विधिनोत्सर्जयेच्च तम्
यः करोति विधानेन कार्तिके व्योम्नि दीपकम्
अत्र ते वर्णयिष्यामि इतिहासं पुरातनम्
पुरा तु निष्ठुरोनाम लुब्धको लोककंटकः 2.4.7.
वने चरन्मृगान्सर्वान्हत्वा वृत्तिमकल्पयत्
कंचिद्ग्रामं जगामाशु चौर्यार्थं कार्तिके मुने