अथवा भक्तवक्त्रेण शिववैभवसंश्रवः 1.3.1.5.
पठितानां च वेदानां यदावृत्तफलावहम्
सफलान्यद्य सर्वाणि तपांसि चरितानि मे
शिवाशिवप्रसादेन माहात्म्यमिदमद्भुतम्
अरुणाचलमाहात्म्यं दुरितक्षयकारणम्
अरुणाद्रिमयं लिंगमाविर्भूतं यथा पुरा
अरुणाचलमाहात्म्यं ब्रह्मणामपि कोटिभिः
इन्द्रादिभिश्च दिक्पालैः पूजितश्चाष्टसिद्धये
खगैश्च मुनिभिर्दिव्यैः सिद्धयोगिभिरर्चितः
आराधितोऽयं भगवानरुणाद्रिपतिः शिवः
कीर्तितोपि जनैर्दूरैः शोणाद्रिरिति मुक्तिदः 1.3.1.5.
ध्यायन्तो योगिनश्चित्ते शिवसायुज्यमाप्नुयुः
अक्षय्यं भवति प्राप्तमरुणाचलसंनिधौ
साहंकारौ युयुधतुः परस्परजिगीषया
अग्नितेजोमयं रूपमादिमध्यांतवर्जितम्
तेजःस्तंभस्य तस्याथ द्रष्टुमाद्यंतभागयोः
तौ विषण्णमुखौ दृष्ट्वा भगवान्करुणानिधिः
तत्प्रार्थितश्च देवेशो यातः स्थावरलिंगताम्
दिव्यदुन्दुभिनिर्घोषैरप्सरोगीतनर्त्तनैः
ब्रह्मणामप्यतीतानां पुरा षण्णवतेः प्रभुः
स कदाचित्तपोविघ्नं कर्तुकामेन योगिनाम् 1.3.1.5.
लावण्यगुणसंपूर्णामालोक्य कमलेक्षणाम्
स्प्रष्टुकामं तमालोक्य ब्रह्माणं कमलासनम्
अस्यां प्रदक्षिणां भक्त्या कुर्वाणायां प्रजापतेः
सा बाला पक्षिणी भूत्वा गगनं समगाहत
शरणं याचमाना सा शोणाद्रिमिममाश्रयत्
रक्ष मामरुणाद्रीश शरण्य शरणागताम्
उदभूत्स्थावराल्लिंगाद्व्याधः कश्चिद्धनुर्द्धरः
निषादे पुरतो दृष्टे मोहस्तस्य ननाश हि
नमश्चक्रे शरण्याय शोणाद्रिपतये तदा