तस्या गृहं समागच्छद्विद्वान्वै कुत्सनामकः कोपेन रक्तचक्षुः संस्तामुवाचाऽसतीं स्त्रियम्
दुःखहेतुमिमं देहं पूयशोणितपूरितम्
जलबुद्बुदवद्देहो नाशमायाति निश्चितम्
तस्मादंतःस्थितं मोहं त्यज मूढे विचारतः
कार्तिके मासि संप्राप्ते स्नानदानादिकं कुरु
लक्षवर्त्यादिकं चैव लक्षपद्मादिकं तथा
धारणं पारणं चैव कुरु भक्त्या हि कार्तिके
सर्वपापप्रशमनं सर्वोपद्रवनाशनम् 2.4.7.
दीपो हरेः प्रियकरः कार्तिके मासि निश्चितम्
पुरा कश्चिद्द्विजवरो नाम्ना हरिकरो ह्यभूत्
पितृवित्तक्षयकरो वंशच्छेदे कुठारकः
हारितं दुष्टसंसर्गात्ततो दुःखी स चाऽभवत्
अयोध्यामागतो वत्से महापापकरो द्विजः
द्यूतव्याजेन तेनाऽऽशु दीपो दत्तो हरेः पुरः
महापातककृद्वाऽपि गतवानभयं हरिम्
तथाऽन्यान्यपि दानानि कुरु भक्तिसमन्विता
साऽपि कुत्सवचः श्रुत्वा पश्चात्तापेन संयुता
पतंगोदयवेलायां कार्तिके स्नानमंभसि 2.4.7.
ततः कालांतरे चैव गतायुर्मृतिमागता
स्वर्गमार्गं गता सा स्त्री काले मोक्षमवाप ह
कार्तिके दीपदानं तु महापुण्यफलप्रदम्
दीपदानस्येतिहासं शृण्वन्वै मोक्षमाप्नुयात्
दीपदानस्य माहात्म्यं वक्तुं केनेह शक्यते
स्वस्याऽपि शक्तिराहित्ये परस्याऽपि प्रबोधनम्
दीपार्थं वर्तिकां तैलं पात्रं वा यो ददाति हि
स तु मोक्षमवाप्नोति नाऽत्र कार्या विचारणा
स्वस्यापि शक्तिराहित्ये परदीपं प्रबोधयेत्
वेश्या चेन्दुमतीनाम तस्या गेहेऽथ मूषिका 2.4.7.
तस्मात्सर्वप्रयत्नेन परदीपं प्रबोधयेत्
परदीपप्रबबोधस्य फलमीदृग्विधं मुने