अन्यधर्मेष्वधिकृतिः कुलजातिविभागतः
गोग्रासः कार्तिके मासि विशेषाद्यैस्तु दीयते
विष्णुदेवालयं प्रातः संमार्जयति कार्तिके 2.4.6.
दद्यात्कार्तिकमासे तु धर्मकाष्ठानि भूरिशः
सुधादि लेपयेद्यस्तु कार्तिके विष्णुमंदिरे
देवालये वा तीर्थे वा कृतो दुष्टैर्नृपैः करः
कार्तिके मासि यो विप्रो गभस्तीश्वरसन्निधौ
वाराणस्यां तु यैः स्थित्वा त्रिवर्षं कार्तिकव्रतम्
इह लोके फलं तेषां प्रत्यक्षं जायते किल
पलांडुं शृंगं मांसं च शय्यां सौवीरकं तथा
धात्रीफलं भानुवारे परदेशागमं तथा
देववेदद्विजातीनां गुरुगोव्रतिनां तथा
नरकस्य चतुर्दश्यां तैलाभ्यंगं च कारयेत् नालिकां मूलकं चैव कूष्मांडं च कपित्थकम् 2.4.6.
रजस्वलांत्यज म्लेच्छ पतितऽव्रतिकैस्तथा
एभिर्दृष्टं च काकैश्च सूतिकान्नं च यद्भवेत्
क्रमात्कूष्मांडबृहतीतरुणीमूलकं तथा
नारिकेलमलाबुं च पटोलं बृहतीफलम्
शाकान्येतानि वर्ज्यानि क्रमात्प्रतिपदादिषु
कार्तिकव्रतिनः पुण्यं यथोक्तव्रतकारिणः
श्रोतव्यं नेह भूयो मे विद्यते देवसत्तम
तथापि भगवन्किंचित्प्रष्टव्यं मे हृदि स्थितम्
दीपदानस्य माहात्म्यं श्रोतुमिच्छामि ते प्रभो
तेन पापानि नश्येयुस्तमांसीव भगोदये
आजन्म यत्कृतं पापं स्त्रिया वा पुरुषेण च
अत्र ते वर्णयिष्यामि इतिहासं पुरातनम्
पुरा द्रविडदेशे तु ब्राह्मणो बुद्धनामकः
तस्याः संसर्गदोषेण क्षीणाऽऽयुर्मृतिमाप्तवान्
रताभून्न हि तस्यास्तु लज्जा लोकापवादतः
न संस्कारान्नमल्पं वा भुक्त्वा पर्युषिताशिनी ।। 2.4.7.
कथायाः श्रवणं चैव न श्रुतं तु तया द्विज