निंदां भगवतः शृण्वंस्तत्परस्य जनस्य च
प्रदक्षिणां तु यः कुर्यात्कार्तिके केशवस्य हि
दंडप्रणामं यः कुर्यात्कार्तिके केशवाऽग्रतः 2.4.6.
कुटुम्बभोजनं चैव कार्तिके भक्तिसंयुतः
परस्त्रीसंगमं यस्तु कार्तिके कुरुते नरः
तुलसीमृत्तिकापुंड्रं ललाटे यस्य दृश्यते
शाकं वा लवणं वाऽपि यत्किंचिद्वा भविष्यति
इत्याद्या बहवो धर्माः कार्तिके विष्णुवल्लभाः
हरिसंतुष्टये कार्यस्त्यागो वा स्वेष्टवस्तुनः
सर्वव्रतानि चैकत्र सत्यव्रतमथैकतः
अन्यधर्मेष्वधिकृतिः कुलजातिविभागतः
गोग्रासः कार्तिके मासि विशेषाद्यैस्तु दीयते
विष्णुदेवालयं प्रातः संमार्जयति कार्तिके 2.4.6.
दद्यात्कार्तिकमासे तु धर्मकाष्ठानि भूरिशः
सुधादि लेपयेद्यस्तु कार्तिके विष्णुमंदिरे
देवालये वा तीर्थे वा कृतो दुष्टैर्नृपैः करः
कार्तिके मासि यो विप्रो गभस्तीश्वरसन्निधौ
वाराणस्यां तु यैः स्थित्वा त्रिवर्षं कार्तिकव्रतम्
इह लोके फलं तेषां प्रत्यक्षं जायते किल
पलांडुं शृंगं मांसं च शय्यां सौवीरकं तथा
धात्रीफलं भानुवारे परदेशागमं तथा
देववेदद्विजातीनां गुरुगोव्रतिनां तथा
नरकस्य चतुर्दश्यां तैलाभ्यंगं च कारयेत् नालिकां मूलकं चैव कूष्मांडं च कपित्थकम् 2.4.6.
रजस्वलांत्यज म्लेच्छ पतितऽव्रतिकैस्तथा
एभिर्दृष्टं च काकैश्च सूतिकान्नं च यद्भवेत्
क्रमात्कूष्मांडबृहतीतरुणीमूलकं तथा
नारिकेलमलाबुं च पटोलं बृहतीफलम्
शाकान्येतानि वर्ज्यानि क्रमात्प्रतिपदादिषु
कार्तिकव्रतिनः पुण्यं यथोक्तव्रतकारिणः
श्रोतव्यं नेह भूयो मे विद्यते देवसत्तम