निषिद्धेषु च पत्रेषु भोजनं नैव कारयेत् एतत्पत्रेषु भोक्तव्यं पुष्करे न कदाचन
कार्तिके मासि संप्राप्ते यः कुर्याद्वनभोजनम्
प्रातःस्नानं तु कर्तव्यं तथैव हरिपूजनम् 2.4.6.
गोपीचंदनदानं तु गोदानं श्रोत्रियाय च
कदलीफलदानं तु दानं धात्रीफलस्य च
शाकादिदानं कुर्वीत चान्नदानं विशेषतः
पौराणिकाय यो दद्यादामान्नं घृतपायसम्
कमलैः पूजयेद्यस्तु कार्तिके कमलाप्रियम्
कार्तिके तुलसीपत्रं यो भक्त्या विष्णवेऽर्पयेत्
कार्तिके केतकीपुष्पैरर्चयेद्गरुडध्वजम्
शंखदानं तु यः कुर्यात्तथा चक्रांकितस्य च
गीतापाठं तु यः कुर्यात्कार्तिके विष्णुवल्लभे
श्रीमद्रागवतस्याऽपि श्रवणं यः समाचरेत् 2.4.6.
एकादश्यां निराहारमुपवासं करोति यः
शालिग्रामस्य नैवेद्यं कोटियज्ञफलं लभेत्
पूजाकाले तु देवस्य घण्टानादं करोति यः
परान्नं वर्जयेद्यस्तु कार्तिके विष्णुतुष्टये
अध्वगं तु परिश्रांतं काले च गृहमागतम्
निंदां कुर्वंति ये मूढा वैष्णवानां महात्मनाम्
दृष्ट्वा भागवतान्विप्रान्सन्मुखो न च याति हि
निंदां भगवतः शृण्वंस्तत्परस्य जनस्य च
प्रदक्षिणां तु यः कुर्यात्कार्तिके केशवस्य हि
दंडप्रणामं यः कुर्यात्कार्तिके केशवाऽग्रतः 2.4.6.
कुटुम्बभोजनं चैव कार्तिके भक्तिसंयुतः
परस्त्रीसंगमं यस्तु कार्तिके कुरुते नरः
तुलसीमृत्तिकापुंड्रं ललाटे यस्य दृश्यते
शाकं वा लवणं वाऽपि यत्किंचिद्वा भविष्यति
इत्याद्या बहवो धर्माः कार्तिके विष्णुवल्लभाः
हरिसंतुष्टये कार्यस्त्यागो वा स्वेष्टवस्तुनः
सर्वव्रतानि चैकत्र सत्यव्रतमथैकतः