कुर्यात्सहस्रपापानि भर्त्राऽऽज्ञां या समाचरेत्
दरिद्रः पतितो मूर्खो दीनोऽपि यदि चेत्पतिः
कलौ वत्स मनुष्याणां शैथिल्यं स्नानकर्मणि
यस्य हस्तौ च पादौ च वाङ्मनश्च सुसंयतम्
अश्रद्दधानः पापात्मा नास्तिकश्छिन्नमानसः
प्रातरुत्थाय यो विप्रस्तीर्थस्नायी सदा भवेत्
स्नानं चतुर्विधं प्रोक्तं स्नानविद्भिर्मनीषिभिः
वायव्यं गोरजःस्नानं वारुणं सागरादिषु 2.4.4.
स्नानानां चैव सर्वेषां विशिष्टं तत्र वारुणम्
तूष्णीमेव हि शूद्रस्य स्त्रीणां चैव तथा स्मृतम्
पापैः सर्वैः प्रमुच्यंते स्नानात्कार्तिकमाघयोः
पुष्करे तीर्थवर्ये तु नंदायाः संगमे पुरा
* नंदाया वचनेनैव कार्तिके सा परं ययौ
यच्छुत्वा सर्वपापेभ्यो मुक्तो मोक्षमवाप्स्यसि
कार्तिके मासि संप्राप्ते निषिद्धानि च वर्जयेत्
फलानि बहुबीजानि धान्यानि द्विदलान्यपि
अलाबुं गृंजरं चैव वृंताकं बृहतीफलम्
पुनर्भोजनं माध्वं च परान्नं कांस्यभोजनम्
गणान्नं गणिकान्नं च तथा वै ग्रामयाजिनः
श्राद्धान्नमृतुशांत्याश्च जातकं नामकं तथा
निषिद्धेषु च पत्रेषु भोजनं नैव कारयेत् एतत्पत्रेषु भोक्तव्यं पुष्करे न कदाचन
कार्तिके मासि संप्राप्ते यः कुर्याद्वनभोजनम्
प्रातःस्नानं तु कर्तव्यं तथैव हरिपूजनम् 2.4.6.
गोपीचंदनदानं तु गोदानं श्रोत्रियाय च
कदलीफलदानं तु दानं धात्रीफलस्य च
शाकादिदानं कुर्वीत चान्नदानं विशेषतः
पौराणिकाय यो दद्यादामान्नं घृतपायसम्
कमलैः पूजयेद्यस्तु कार्तिके कमलाप्रियम्
कार्तिके तुलसीपत्रं यो भक्त्या विष्णवेऽर्पयेत्
कार्तिके केतकीपुष्पैरर्चयेद्गरुडध्वजम्