तस्मात्तां गच्छ देवि त्वं ततः पापाद्विमोक्ष्यसे
तज्जलस्पर्शमात्रेण कार्तिके विष्णुपादजा
कार्तिके प्रतिवर्षं तु गंगा त्रैलोक्यपावनीम्
तज्जलस्पर्शमात्रेण कार्तिके विष्णुपादजा
तस्माच्छस्तं तुलास्नानं कावेर्य्यां शस्यते बुधैः
विमुक्तदुरितः सद्यस्ततो याति परां गतिम्
इतिहासमिमं श्रुत्वा कार्तिकव्रततत्परः
रात्रिशेषे भवेत्स्नानमुत्तमं विष्णुतुष्टिकृत् 2.4.4.
तावदेव भवेत्स्नानमन्यथा तन्न कार्तिकम्
अपृष्ट्वा यत्कृतं धर्म्यं भर्तारं तत्क्षयं नयेत्
कुर्यात्सहस्रपापानि भर्त्राऽऽज्ञां या समाचरेत्
दरिद्रः पतितो मूर्खो दीनोऽपि यदि चेत्पतिः
कलौ वत्स मनुष्याणां शैथिल्यं स्नानकर्मणि
यस्य हस्तौ च पादौ च वाङ्मनश्च सुसंयतम्
अश्रद्दधानः पापात्मा नास्तिकश्छिन्नमानसः
प्रातरुत्थाय यो विप्रस्तीर्थस्नायी सदा भवेत्
स्नानं चतुर्विधं प्रोक्तं स्नानविद्भिर्मनीषिभिः
वायव्यं गोरजःस्नानं वारुणं सागरादिषु 2.4.4.
स्नानानां चैव सर्वेषां विशिष्टं तत्र वारुणम्
तूष्णीमेव हि शूद्रस्य स्त्रीणां चैव तथा स्मृतम्
पापैः सर्वैः प्रमुच्यंते स्नानात्कार्तिकमाघयोः
पुष्करे तीर्थवर्ये तु नंदायाः संगमे पुरा
* नंदाया वचनेनैव कार्तिके सा परं ययौ
यच्छुत्वा सर्वपापेभ्यो मुक्तो मोक्षमवाप्स्यसि
कार्तिके मासि संप्राप्ते निषिद्धानि च वर्जयेत्
फलानि बहुबीजानि धान्यानि द्विदलान्यपि
अलाबुं गृंजरं चैव वृंताकं बृहतीफलम्
पुनर्भोजनं माध्वं च परान्नं कांस्यभोजनम्
गणान्नं गणिकान्नं च तथा वै ग्रामयाजिनः
श्राद्धान्नमृतुशांत्याश्च जातकं नामकं तथा