अतो मधुपुरी श्रेष्ठा यमुना च विशेषतः
द्वारावती ततः श्रेष्ठा प्रत्यहं स्नाति केशवः
द्वारकायां मृत्तिकायास्तिलको येन मस्तके द्वारकास्नानमाहात्म्यं न वक्तुं शक्यते मया
गोविंदार्पितचित्तानां जायते पुण्यभास्करा
तस्माद्दशगुणं पुण्यं तीर्थराजेऽत्र जायते
कलौ दशसहस्रांऽते विष्णुस्त्यक्ष्यति मेदिनीम्
यावत्तिष्ठति गंगाऽत्र तावत्तीर्थानि संति च
यदैव गंगा नष्टा स्यात्को वा तत्पापमाहरेत् 2.4.4.
तस्मान्मुनीश्वराः सर्वे यावत्तिष्ठति जाह्नवी
समाधिं गृह्य सुदृढां यावत्कृतयुगं भवेत्
ततः श्रेष्ठतरा काशी यस्या नाशो न जायते
काशिकाया नैव नाशो ब्रह्मण्यपि मृते सति तस्यां पंचनदं तीर्थं त्रिषु लोकेषु विश्रुतम्
आगते कार्तिके मासि रौरवं नरकं गताः
कश्चिद्भाग्यवतां श्रेष्ठो गत्वा पंचनदे शुभे
तीर्थराजादितीर्थानि प्राप्ते कार्तिकमासके
कृत्वा तु लक्षपापानि स्नात्वा पंचनदे शुभे
यैः स्नातं कार्तिके मासि सकृत्पंचनदे शुभे
तावता वै विमुक्ताऽघो विष्णुसायुज्यमाप्नुयात् ।। 2.4.4.
कावेर्य्याश्चैव माहात्म्यं को वदेत्परमुत्तमम्
कावेर्या विषये ब्रह्मन्सावधानमनाः शृणु
गंगा त्रैलोक्यपापघ्नी वर्तते लोकपूजिता
सर्वलोकाः समागत्य मयि पापं त्यजंति हि
प्रष्टुं जगाम कैलासं गिरिजावल्लभं भवम्
सर्वे लोकाः समागत्य मयि पापं त्यजंति हि
तत्पापं तु मया सोढुं न शक्यं पार्वतीपते
एवं गंगावचः श्रुत्वा प्रत्याह परमेश्वरः रुद्र उवाच पापनिर्हरणायादौ पद्मनाभांघ्रिपंकजात्
प्रादुर्भूताऽसि त्वं देवि किमर्थं तप्यते त्वया
तथाऽपि पापनिर्हार उपायं ते ब्रवीम्यहम् 2.4.4.
सर्वोत्कृष्टा च सर्वेषां हरेर्बलवशात्तु सा
कार्तिके मासि कावेर्यां यः स्नानं कुरुते नरः