स्मरेद्गंगादिका नद्यो विष्णुशर्वादिदेवताः
कार्तिकेऽहं करिष्यामि प्रातःस्नानं जनार्दन
नित्ये नैमित्तिके कृत्वा कार्तिके पापनाशन
तीर्थादिदेवताभ्यश्च क्रमादर्घ्यादि दापयेत्
नमः कमलनाभाय नमस्ते जलशायिने
व्रतिनः कार्तिके मासि स्नातस्य विधिवन्मम
किरणा धूतपापा च पुण्यतोया सरस्वती
अन्यासां च नदीनां च दद्यादर्घ्यं यथाविधि 2.4.4.
नान्यत्तीर्थं तु जाह्नव्यां स्मरणीयं कदाचन
मृत्स्नानं च पितृस्नानं गुरुस्नानं ततः परम्
अघमर्षणकं कृत्वा स्नानांगं तर्पणं तथा
ततस्तु बहिरागत्य तीर्थं शिरसि निक्षिपेत्
ततो जलाद्विनिष्क्रम्य चांचलं पीडयेद्बहिः
तद्दोषपरिहारार्थं यक्ष्मणं तर्पयाम्यहम्
अरुणं प्रति सूर्येण यदुक्तं च सविस्तरम्
क्षेत्रे वा एतदाऽऽख्याहि भगवन्स्नानयोगतः
यत्र कुत्राऽपि कर्तव्यं जले स्नानं तु कार्तिकं
ततो दशगुणं पुण्यं शीततोयनिमज्जनात् 2.4.4.
कूपात्सहस्रगुणितं फलं वापीनिषेकतः
ततो दशगुणं पुण्यं निर्झरेषु निमज्जनात्
नद्या दशगुणं प्रोक्तं तीर्थस्नानं खगोत्तम
नदीत्रयस्य संयोगे पुण्यस्यांऽतो न विद्यते
गोदावरी विपाशा च नर्मदा तमसा मही
वितस्ता वेदिका शोणो वेत्रवत्यपराजिता
वाग्मती च शतद्रुश्च तथा बदरिकाश्रमः
सर्वेभ्यश्च स्थलेभ्यश्च आर्यावर्तं तु पुण्यदम्
अनंतसेनवसतिर्वराहक्षेत्रमेव च
अवंतिका ततः श्रेष्ठा ततो बदरिकाश्रमः 2.4.4.
ततः कनखलं तीर्थं ततो मधुपुरी वरा
यैः स्नातस्ते तु वैकुंठे बहुकालं वसंति हि