या नारी कार्तिके मासि लक्षं कुर्यात्प्रदक्षिणाः
दम्पती भोजयेद्राधादामोदरस्वरूपिणौ
वन्ध्याऽपि लभते पुत्रमितरासां तु का कथा
बोधिद्रुमे पादपेषु शालिग्रामे शिलासु च
अश्वत्थपूजा स्पर्शेन कर्त्तव्या शनिवासरे
स्नानं जागरणं दीपं तुलसीवनपालनम्
संमार्जनं विष्णुगृहे स्वस्तिकादिनिवेदनम् 2.4.3.
स्नानकालं प्रवक्ष्यामि तीर्थादिषु च यत्फलम्
तुलसीमृत्तिकायुक्तः सवस्त्रकलशो मुने
आगत्य तोयनिकटे तीरे संस्थाप्य पात्रकम्
स्मरेद्गंगादिका नद्यो विष्णुशर्वादिदेवताः
कार्तिकेऽहं करिष्यामि प्रातःस्नानं जनार्दन
नित्ये नैमित्तिके कृत्वा कार्तिके पापनाशन
तीर्थादिदेवताभ्यश्च क्रमादर्घ्यादि दापयेत्
नमः कमलनाभाय नमस्ते जलशायिने
व्रतिनः कार्तिके मासि स्नातस्य विधिवन्मम
किरणा धूतपापा च पुण्यतोया सरस्वती
अन्यासां च नदीनां च दद्यादर्घ्यं यथाविधि 2.4.4.
नान्यत्तीर्थं तु जाह्नव्यां स्मरणीयं कदाचन
मृत्स्नानं च पितृस्नानं गुरुस्नानं ततः परम्
अघमर्षणकं कृत्वा स्नानांगं तर्पणं तथा
ततस्तु बहिरागत्य तीर्थं शिरसि निक्षिपेत्
ततो जलाद्विनिष्क्रम्य चांचलं पीडयेद्बहिः
तद्दोषपरिहारार्थं यक्ष्मणं तर्पयाम्यहम्
अरुणं प्रति सूर्येण यदुक्तं च सविस्तरम्
क्षेत्रे वा एतदाऽऽख्याहि भगवन्स्नानयोगतः
यत्र कुत्राऽपि कर्तव्यं जले स्नानं तु कार्तिकं
ततो दशगुणं पुण्यं शीततोयनिमज्जनात् 2.4.4.
कूपात्सहस्रगुणितं फलं वापीनिषेकतः
ततो दशगुणं पुण्यं निर्झरेषु निमज्जनात्