प्रसंगाद्वा बलात्कारैर्ज्ञात्वाज्ञात्वा कृतं भवेत्
स्नानार्थं चेन्न सामर्थ्यं दत्वान्यस्मै धनादिकम्
अथवा कार्तिकस्नानं ये कुर्वंति द्विजातयः
राधादामोदरः पूज्यः कार्तिके तु विशेषतः
स्वर्णस्य वाथ रौप्यस्याऽप्यभावे शुल्बजामपि
दामोदरस्य राधायास्तुलस्यधोऽर्चयंति ये
अपि पापसहस्राढ्यः कार्तिकस्नानतो नरः 2.4.3.
तुलस्यभावे कर्तव्या पूजा धात्रीतले खग
अप्रत्यक्षाः सर्वदेवाः प्रत्यक्षो भगवानयम्
एतदाराधनेऽशक्तः प्रतिमां पूजयेन्नरः
दरिद्रो दानपात्रं स्याद्विद्यावांस्तु विशेषतः
विष्णोर्मूर्तिर्जंगमतः स्थावरा तु प्रशस्यते पितृभिर्निरयं याति दशपूर्वैर्दशापरैः
शूद्रार्चितस्य संस्पर्शाद्दहेदासप्तमं कुलम्
तस्माद्विचार्य्य विप्रैर्या स्थापिता तां समर्चयेत्
मूर्त्यभावे पूजनीयोऽश्वत्थो वाऽथ वटोऽथ वा
कार्तिके तुलसीशाकं तांबूलं वा नराधमः
शालिग्रामशिलाचक्रे नित्यं सन्निहितो हरिः 2.4.3.
रुद्रशापवशाद्गावो विष्ठाभक्षणतत्पराः
ब्रह्मांऽशकसमुद्भूते पालाशे यस्तु भोजनम्
* अश्वत्थरूपी भगवान्वटरूपी सदाशिवः
या नारी कार्तिके मासि लक्षं कुर्यात्प्रदक्षिणाः
दम्पती भोजयेद्राधादामोदरस्वरूपिणौ
वन्ध्याऽपि लभते पुत्रमितरासां तु का कथा
बोधिद्रुमे पादपेषु शालिग्रामे शिलासु च
अश्वत्थपूजा स्पर्शेन कर्त्तव्या शनिवासरे
स्नानं जागरणं दीपं तुलसीवनपालनम्
संमार्जनं विष्णुगृहे स्वस्तिकादिनिवेदनम् 2.4.3.
स्नानकालं प्रवक्ष्यामि तीर्थादिषु च यत्फलम्
तुलसीमृत्तिकायुक्तः सवस्त्रकलशो मुने
आगत्य तोयनिकटे तीरे संस्थाप्य पात्रकम्