अहो मान्ये मान्यमर्थं विज्ञायैव पुरा वयम् 1.3.1.5.
यद्देवि ते न चेत्किंचिन्मायाविलसितन्निजम्
तिष्ठत्वशेषं मे वक्तुं मायाविलसितं तव
आस्यतां पावने शुद्धं आसने कुशनिर्मिते
इति शिष्यैः समानीते दर्भांके परमासने
निवेद्य सकलां पूजां भक्तिभावसमन्वितः
उवाच दशनज्योत्स्नापरिधौतदिशामुखः
अहो देवस्य माहात्म्यं शम्भोरमिततेजसः
असिद्धमन्यल्लब्धव्यं किं वान्यत्तव विद्यते
कैलासशैलवृत्तांतः कंपातटतपःस्थितः
आगतासि महाभागे भक्ताश्रममिमं स्वयम् 1.3.1.5.
इति तस्य वचः श्रुत्वा महर्षेः सर्ववेदिनः
महावैभवमेतत्ते देवदेवः स्वयं शिवः
आगमानां शिवोक्तानां वेदानामपि पारगः
अरुणाचल नाम्नाहं तिष्ठामीत्यब्रवीच्छिवः
प्राप्तास्म्यहं तपः कर्तुमरुणाचलसन्निधौ
शिवभक्तेन संभाषा शिवसंकीर्त्तनश्रवः
तस्मान्ममैतन्माहात्म्यं श्रोतव्यं भवतो मुखात्
इति तस्या वचः श्रुत्वा गौतमस्तपसां निधिः
अज्ञातमिव यत्किंचित्पृच्छ्यते च पुनस्त्वया
अथवा भक्तवक्त्रेण शिववैभवसंश्रवः 1.3.1.5.
पठितानां च वेदानां यदावृत्तफलावहम्
सफलान्यद्य सर्वाणि तपांसि चरितानि मे
शिवाशिवप्रसादेन माहात्म्यमिदमद्भुतम्
अरुणाचलमाहात्म्यं दुरितक्षयकारणम्
अरुणाद्रिमयं लिंगमाविर्भूतं यथा पुरा
अरुणाचलमाहात्म्यं ब्रह्मणामपि कोटिभिः
इन्द्रादिभिश्च दिक्पालैः पूजितश्चाष्टसिद्धये
खगैश्च मुनिभिर्दिव्यैः सिद्धयोगिभिरर्चितः
आराधितोऽयं भगवानरुणाद्रिपतिः शिवः