कार्तिके मासि विप्रेंद्र यस्तु गीतां पठेन्नरः
गीतायास्तु समं शास्त्रं न भूतं न भविष्यति 2.4.2.
एकेनाऽध्यायपाठेन सर्वपापकृतोऽपि च
* शालिग्रामशिलादानं यः कुर्यात्कार्तिके मुने
* शालिग्रामं समभ्यर्च्य श्रोत्रियाय महामुने
सप्तसागरपर्यंतं भूदानाद्यत्फलं भवेत्
शालिग्रामशिलादानात्कार्तिके ब्राह्मणी यथा
* तस्मात्तु कार्तिके मासि स्नानदानपुरःसरम्
ब्रह्मोवाच भूयः शृणुष्व विप्रेंद्र कार्तिकस्य च वैभवम्
पौर्णमासीं समारभ्य पौर्णमास्यां समापयेत्
दामोदरं नमस्कृत्य कुर्यात्संकल्पमादितः
कार्तिकस्य व्रतं कर्तुमनुज्ञां दातुमर्हसि
इति संप्रार्थ्य विधिना कार्तिकव्रतमाचरेत् कलौ च स्वर्गगमनकारणं श्रूयतां हि तत्
तस्मात्पुण्यफलः प्रोक्तो वैशाखो नर्मदातटे
तस्मान्महाफलः प्रोक्तः कार्तिको जलमात्रके
एकतः कार्तिकस्नानं ब्रह्मणा तुलया धृतम्
अवश्यं तैः कृतं विद्धि कार्तिकस्नानमादरात् 2.4.3.
भूमिशय्या ब्रह्मचर्य्यं तथा द्विदलवर्जनम्
कार्तिके मासि कुर्वंति जीवन्मुक्तास्त एव हि
न कार्तिकसमं काम्यं मोक्षदानं न कार्तिकात्
श्रीकृष्णेन तु कामार्थं मोक्षार्थं नारदेन च
अरुण उवाच ब्रूहि भास्कर सर्वात्मन्कदाऽऽरभ्य व्रतं कृतम्
अहं विष्णुश्च शर्वश्च देवी विघ्नेश्वरस्तथा
अस्माकं सर्व एवैते भेदा विद्धि खगेश्वर
कर्तव्यं कार्तिकस्नानं सर्वपापापनुत्तये
इषपूर्णां समारभ्य यावत्कार्तिकपूर्णिमा
देवीपक्षं समारभ्य महारात्रिचतुर्दशी 2.4.3.
गणपक्षं समारभ्य कृष्णा या कार्तिके भवेत्
एकादशीं समारभ्य आश्विनस्याऽसितेतराम् कृतं येन तु तस्य स्यात्परितुष्टो जनार्दनः
न कार्तिकसमो मासो न काशीसदृशी पुरी