* तस्मात्सर्वप्रयत्नेन कार्तिके विष्णुतत्परः
नरेभ्यो वैष्णवं धर्मं यो ददाति द्विजोत्तमः 2.4.2.
तिलधेनुं हिरण्यं च रजतं भूमिवाससी
सर्वेषामेव दानानां कन्यादानं विशिष्यते
दशानडुत्समं यानं दशयानसमो हयः
गजदानसहस्राणां स्वर्णदानं च तत्समम्
विद्यादानात्कोटिगुणं भूमिदानं विशिष्यते
गोप्रदानसहस्रेभ्यो ह्यन्नदानं विशिष्यते
परान्नवर्जनादेव लभेच्चांद्रायणं फलम्
कार्तिके वर्जयेन्मांसं सन्धानं च विशेषतः
प्रवृत्तानां तु भक्ष्याणां कार्तिके नियमे कृते
ब्राह्मणेभ्यो महीं दत्त्वा ग्रहणे सूर्यचंद्रयोः 2.4.2.
भोजनं द्विजदंपत्योः पूजनं च विलेपनैः
तूलिकाश्च प्रदातव्याः प्रच्छादनपटैः सह
कार्तिके क्षितिशायी च हन्यात्पापं युगार्जितम्
दामोदराग्रे देवर्षे गोसहस्रफलं लभेत्
न भवेत्कार्तिके यस्य हरेत्पुण्यं दशाब्दिकम्
कार्तिके मुनिशार्दूल लक्षकोटिगुणं भवेत्
अवन्ती माधवे मासि हन्यात्पापं युगार्जितम्
ये कुर्वंति नरा नित्यं प्रीत्यर्थं हरिपूजनम्
क्षीरादिस्नपनं विष्णोः क्रियते पितृकारणात्
कार्तिके नार्चितो यैस्तु कृष्णस्तु कमलेक्षणः 2.4.2.
अहो मुष्टा विनष्टास्ते पतिताः कलिकन्दरे
पद्मेनैकेन देवेशं योऽर्चयेत्कमलापतिम् पुष्करार्चनयोगेन श्वेतो मुक्तिमवाप ह
* अपराधसहस्राणि तथा सप्तशतानि च
तुलसीपत्रलक्षेण कार्तिके योऽर्चयेद्धरिम्
मुखे शिरसि देहे तु कृष्णोत्तीर्णां तु यो वहेत् सर्वरोगैस्तथा पापैर्मुक्तो भवति मानवः
शंखोदकं हरेर्भक्तिर्निर्माल्यं पादयोर्जलम्
कार्तिके मासि विप्रेन्द्र प्रातःस्नानपरायणः
सर्वेषामेव दानानामन्नदानं विशिष्यते