तदक्षयं हि लभते अन्नदानं विशेषतः
उदधीनां च विप्रर्षे क्षयो नैवोपपद्यते
न तस्यास्ति क्षयो विप्र पापं याति सहस्रधा
दिनेदिनेऽतिकृच्छ्रस्य फलं प्राप्नोत्ययत्नतः
न वेदसदृशं शास्त्रं न तीर्थं गंगया समम्
न्यायेनोपार्जितं द्रव्यं दुर्लभं दानकारिणाम्
कार्तिके मुनिशार्दूल शालिग्रामशिलार्चनम्
एतादृशं कार्तिकं च अकृतेनैव यो नयेत् 2.4.1.
येन तत्फलमाप्नोति तन्मे वद पितामह
अन्यस्मै द्रविणं दत्त्वा कारयेत्कार्तिकव्रतम्
तस्मात्पुण्यं प्रगृह्णीत दानसंकल्पपूर्वकम्
तदा तेन प्रकर्तव्यं पानं तीर्थजलस्य च
स्मरणं च प्रकर्तव्यं नाम्ना नियमपूर्वकम्
विष्णोः शिवस्य वा कुर्यादालये हरिजागरम्
दुर्गाटव्यां स्थितो वाऽथ यदिवाऽऽपद्गतो भवेत्
विष्णुनामप्रबंधानां गायनं विष्णुसन्निधौ
वाद्यकृत्पुरुषश्चापि वाजपेयफलं लभेत्
सर्वमेतल्लभेत्पुण्यमेतेषां द्रव्यदः पुमान् 2.4.1.
आपद्गतो यदाप्यंभो न लभेत्कुत्रचिन्नरः
उद्यापनविधिं कर्तुमशक्तो यो व्रतस्थितः
अशक्तो दीपदानाय परदीपं प्रबोधयेत्
श्रीविष्णोः पूजनाऽभावे तुलसीधात्रिपूजनम् तस्याप्यभावे मनसि विष्णोर्नामानुकीर्तनम्
ब्रह्मोवाच अथ कार्तिकमासस्य धर्मान्वक्ष्यामि नारद
स तु मोक्षमवाप्नोति नात्र कार्या विचारणा गुरुशुश्रूषया सर्वं प्राप्नोति ऋषिसत्तम
गुरौ तुष्टे च तुष्टाः स्युर्देवाः सर्वे सवासवा
कार्तिकं मासि संप्राप्ते कृत्वा कर्माणि भूरिशः
यत्किंचिद्वा समादिष्टो गुरुणा तत्समाचरेत्
आज्ञप्तो गुरुणा विप्र न तद्वाक्यं तु लंघयेत्
मातृत्वे च पितृत्वे च गुरुमेव स्मरेद्बुधः
गुरुप्रसादात्सर्वं तु प्राप्नोत्येव न संशयः गौतमस्य गुरोः सम्यक्सेवयाऽमरतां गताः