स्वर्णानि मेरुतुल्यानि सर्वदानानि चैकतः
यत्किंचित्क्रियते पुण्यं विष्णुमुद्दिश्य कार्तिके
सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम्
दुष्प्राप्यं प्राप्य मानुष्यं कार्तिकोक्तं चरेन्न यः
कार्तिकः खलु वै मासः सर्वमासेषु चोत्तमः
अस्मिन्मासे त्रयस्त्रिंशद्देवाः सन्निहिता मुने
तिलधेनुं हिरण्यं च रजतं भूमिवाससी
तानि दानानि दत्तानि गृह्णंति विधिवत्सुराः 2.4.1.
तदक्षय्यफलं प्रोक्तं विष्णुना प्रभविष्णुना पापानां मोक्षणं चैव कार्तिके मासि शस्यते
तस्माद्यत्नेन विप्रेंद्र कार्तिके मासि दीयते
तदक्षयं हि लभते अन्नदानं विशेषतः
उदधीनां च विप्रर्षे क्षयो नैवोपपद्यते
न तस्यास्ति क्षयो विप्र पापं याति सहस्रधा
दिनेदिनेऽतिकृच्छ्रस्य फलं प्राप्नोत्ययत्नतः
न वेदसदृशं शास्त्रं न तीर्थं गंगया समम्
न्यायेनोपार्जितं द्रव्यं दुर्लभं दानकारिणाम्
कार्तिके मुनिशार्दूल शालिग्रामशिलार्चनम्
एतादृशं कार्तिकं च अकृतेनैव यो नयेत् 2.4.1.
येन तत्फलमाप्नोति तन्मे वद पितामह
अन्यस्मै द्रविणं दत्त्वा कारयेत्कार्तिकव्रतम्
तस्मात्पुण्यं प्रगृह्णीत दानसंकल्पपूर्वकम्
तदा तेन प्रकर्तव्यं पानं तीर्थजलस्य च
स्मरणं च प्रकर्तव्यं नाम्ना नियमपूर्वकम्
विष्णोः शिवस्य वा कुर्यादालये हरिजागरम्
दुर्गाटव्यां स्थितो वाऽथ यदिवाऽऽपद्गतो भवेत्
विष्णुनामप्रबंधानां गायनं विष्णुसन्निधौ
वाद्यकृत्पुरुषश्चापि वाजपेयफलं लभेत्
सर्वमेतल्लभेत्पुण्यमेतेषां द्रव्यदः पुमान् 2.4.1.
आपद्गतो यदाप्यंभो न लभेत्कुत्रचिन्नरः
उद्यापनविधिं कर्तुमशक्तो यो व्रतस्थितः