कृष्णपक्षे चतुर्दश्यां ये पश्यंति यशस्विनि
किं दानैः किं तपोभिश्च किं यज्ञैर्बहुदक्षिणैः
आजन्म च कृतं पापं स्वल्पं वा यदि वा बहु
इत्येवं चतुराशीतिः संख्याता ईश्वरास्तव
य एतेषां देवि यात्रां प्रतिलोमानुलोमतः
यश्चापि पूजयेत्तत्र लिंगं भक्त्या तु मानवः
एष ते कथितो देवि प्रभावः पाप नाशनः ५.२.८४.
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्य उमामहेश्वरसंवाद उत्तरेश्वरलिंगमाहात्म्यवर्णनपूर्वक चतुरशीतिलिंगमाहात्म्यवर्णनंनाम चतुरशीतितमोऽध्यायः
श्रीगणेशाय नमः अथ कार्त्तिकमासमाहात्म्यप्रारम्भः देवीं सरस्वतीं चैव ततो जयमुदीरयेत्
भूयोऽन्यच्छ्रोतुमिच्छामः कार्तिकस्य च वैभवम्
कलौ कलुषचित्तानां नराणां पापकर्मणाम्
को धर्मः सर्वधर्माणामधिको मोक्षसाधकः
नारदो ब्रह्मणः पुत्रो ब्रह्माणं तु जगद्गुरुम्
तथैव सत्यभामा च श्रीकृष्णं जगदीश्वरम्
वालखिल्यैश्च ऋषिभिर्यदुक्तमृषिसंसदि
कैलासे शंकरेणैव कार्तिकस्य च वैभवम्
पृथुं प्रति नारदेन कथितं च महात्म्यकम्
एकदा नारदो योगी सत्यलोकमुपागतः 2.4.1.
को वह्निर्दहते ब्रह्मंस्तद्भवान्वक्तुमर्हति
नाज्ञातं त्रिषु लोकेषु ब्रह्मांडांतर्गतस्य यत्
मासानां प्रवरो मासो देवानामुत्तमोत्तमः
तीर्थं नारायणाख्यं हि त्रितयं दुर्लभं कलौ
वैष्णवान्ब्रूहि मे धर्मान्सर्वज्ञोऽसि पितामह
आदौ कार्तिकमाहात्म्यं वक्तुमर्हसि मे प्रभो
गोपीचंदनमाहात्म्यं तुलस्याश्च तथा विभो व्रतारंभः कदा कार्यं उद्यापनविधिं तथा
यत्किंचिद्वैष्णवं धर्मं तत्सर्वं वक्तुमर्हसि
राधादामोदरं स्मृत्वा प्रोवाच तनुजं प्रति
कथयामि न संदेहः कार्तिकस्य च वैभवम् ।। 2.4.1.
एकतः सर्वतीर्थानि सर्वे यज्ञाः सदक्षिणाः कार्तिकस्य तु मासस्य कलां नार्हंति षोडशीम्
एकतः पुष्करे वासः कुरुक्षेत्रे हिमालये