तस्य माहात्म्यमवलोक्य देवाचार्यो बृहस्पतिर्वाक्यं जगाद
अहो लिंगस्य माहात्म्यमहो लिंगस्य वैभवम्
आयुराख्यो हि भूपालो मुक्तो दर्दुरतां गतः
इति तद्वचनं श्रुत्वा देवाचार्यस्य पार्वति
यस्माद्दर्दुरभूपालो मुक्तो दर्दुरयोनितः
उत्तरेश्वरदेवश्च शापपापप्रणोदकः
भुक्तिमुक्तिप्रदो देवि महापातकनाशनः दर्दुरो हि दुराधर्षः स चापीश्वरतां गतः ५.२.८४.
उत्तराशामथो गत्वा यः पश्येदुत्तरेश्वरम्
सुभगः सर्वदा दांतः सुरूपः पुत्रवानिति
या वृद्धिस्तु कुबेरस्य शक्रस्य च यमस्य च जायते नात्र सन्देह उत्तरेश्वरदर्शनात
कृष्णपक्षे चतुर्दश्यां ये पश्यंति यशस्विनि
किं दानैः किं तपोभिश्च किं यज्ञैर्बहुदक्षिणैः
आजन्म च कृतं पापं स्वल्पं वा यदि वा बहु
इत्येवं चतुराशीतिः संख्याता ईश्वरास्तव
य एतेषां देवि यात्रां प्रतिलोमानुलोमतः
यश्चापि पूजयेत्तत्र लिंगं भक्त्या तु मानवः
एष ते कथितो देवि प्रभावः पाप नाशनः ५.२.८४.
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्य उमामहेश्वरसंवाद उत्तरेश्वरलिंगमाहात्म्यवर्णनपूर्वक चतुरशीतिलिंगमाहात्म्यवर्णनंनाम चतुरशीतितमोऽध्यायः
श्रीगणेशाय नमः अथ कार्त्तिकमासमाहात्म्यप्रारम्भः देवीं सरस्वतीं चैव ततो जयमुदीरयेत्
भूयोऽन्यच्छ्रोतुमिच्छामः कार्तिकस्य च वैभवम्
कलौ कलुषचित्तानां नराणां पापकर्मणाम्
को धर्मः सर्वधर्माणामधिको मोक्षसाधकः
नारदो ब्रह्मणः पुत्रो ब्रह्माणं तु जगद्गुरुम्
तथैव सत्यभामा च श्रीकृष्णं जगदीश्वरम्
वालखिल्यैश्च ऋषिभिर्यदुक्तमृषिसंसदि
कैलासे शंकरेणैव कार्तिकस्य च वैभवम्
पृथुं प्रति नारदेन कथितं च महात्म्यकम्
एकदा नारदो योगी सत्यलोकमुपागतः 2.4.1.
को वह्निर्दहते ब्रह्मंस्तद्भवान्वक्तुमर्हति
नाज्ञातं त्रिषु लोकेषु ब्रह्मांडांतर्गतस्य यत्