प्रविश्य च राजा सह प्रियया सुधाधवलसलिलपूर्णां वापीमपश्यत्
वापीं दर्दुरैः पूर्णां दृष्ट्वैव च तां तस्या एव तीरे तया देव्यातिष्ठत्
अथ तां देवीं राजाब्रवीत्
सा च तद्वचः श्रुत्वा तीर्थवापीं न्यमज्जन्न पुनरुदमज्जत्
वापीं दर्दुरैर् पूर्णां दृष्ट्वा आज्ञापयामास भृत्यान्सर्वदर्दुरवधः क्रियतामिति
यो ममार्थी स तैर्ददुरैरुपायनैर्मामनुतिष्ठेत्
अथ कश्चिन्महान्दर्दुरो दर्दुरवधे क्रियमाणे सर्वासु दिक्ष्वभ्यगात् ।। ५.२.८४.
उपेत्य चैनमुवाचेदं ज्ञात्वा क्रोधवशंगतम्
श्लोकश्चात्र भवति प्रक्षीयते महाधर्मो जनानां परिजानताम्
तमेवं वादिनमिष्टजनवियोगे शाकपरीतात्मानं स राजा प्रोवाच
एतैर्दुरात्मभिर्म स्त्री भक्षिता सर्वथैव त्विम वध्या दर्दुराः
स तद्वाक्यमुपश्रुत्य व्यथितेंद्रियमनाः प्रोवाच प्रसीद राजन्नहमायुर्नामभूपालः
प्राप्ता सा मम दुहिता अत्रास्ते नागचूडो नागराजः
तामब्रवीद्राजा तां स्मृत्वानीय मे दीयतामिति
अथैनां स्मृत्वा राज्ञे अदात्
मयावहसितो गालवो महान्मुनिः तपसा कर्शितांगः
प्रसादितस्तु विप्रः प्रत्युवाच ५.२.८४.
अवितथोऽयं मम शापस्तस्मादन्यजन्मनि दर्दुरराजो भूत्वा त्वं हि दुहितरमिक्ष्वाकुकुलोत्पन्नाय सर्वगुणान्विताय दत्त्वा यदा यास्यसि महाकालवने तस्योत्तरदिग्भागे तदा लिंगस्य दर्शनेन मुक्तिमवाप्स्यसि
दुहिता कियत्पातालं यास्यति स्मृता चागमिष्यति
तस्योत्तरे लिंगं ददर्श तस्य दर्शनादनेकमा णिक्यरचितं सिद्धगन्धर्वसेवितं विमानवरमारुह्य शक्रलोकं गतः
तस्य माहात्म्यमवलोक्य देवाचार्यो बृहस्पतिर्वाक्यं जगाद
अहो लिंगस्य माहात्म्यमहो लिंगस्य वैभवम्
आयुराख्यो हि भूपालो मुक्तो दर्दुरतां गतः
इति तद्वचनं श्रुत्वा देवाचार्यस्य पार्वति
यस्माद्दर्दुरभूपालो मुक्तो दर्दुरयोनितः
उत्तरेश्वरदेवश्च शापपापप्रणोदकः
भुक्तिमुक्तिप्रदो देवि महापातकनाशनः दर्दुरो हि दुराधर्षः स चापीश्वरतां गतः ५.२.८४.
उत्तराशामथो गत्वा यः पश्येदुत्तरेश्वरम्
सुभगः सर्वदा दांतः सुरूपः पुत्रवानिति
या वृद्धिस्तु कुबेरस्य शक्रस्य च यमस्य च जायते नात्र सन्देह उत्तरेश्वरदर्शनात