जगाम बिल्वो भूपालो महाकालवनं शुभम्
मुक्ताफलैश्च रत्नैश्च वासोभिर्भूषणैस्तथा
ददर्श बिल्वं भूपालं पूजयंतं पुनःपुनः दृष्ट्वा मत्वा महादेवं जितोऽस्मीति द्विजोऽब्रवीत्
प्रार्थयामि त्वया सख्यमनंतं शिवसंनिधौ ५.२.८३.
प्रसन्नः प्रांजलिर्भूत्वा कपिलं द्विजसत्तमम्
सख्यं तदेव भवतु शश्वद्वदसि मन्यसे
चिकीडतुश्चिरं कालं परं हर्षमुपागतौ
स हि मित्रेण भूपालो बिल्वो देवि मुदान्वितः बिल्वेनाराधितो लोके वांछितार्थफलप्रदः
ये पश्यंति विशालाक्षि देवं बिल्वेश्वरं परम्
येऽनुमोदंति देवस्य दर्शनं पर्वतात्मजे
समतीतं भविष्यं च कुलानामयुतं नरः
प्रयांति पितरो हृष्टा मम लोके ह्यतंद्रिताः
कृत्वापि पातकं घोरं ब्रह्महत्यादिकं नरः
या तिथिः श्रूयते देवि कृष्णपक्षे त्रयोदशी ५.२.८३.
येऽर्चयंति नरास्तस्यां देवं बिल्वेश्वरं प्रिये
कर्मणा मनसा वाचा यत्पापं समुपार्जितम्
एष ते कथितो देवि प्रभावः पापनाशनः
जन्ममृत्युजराव्याधिस्फोटनं शृणु पार्वति
अयोध्यायामतिख्यातकुलोत्पन्नश्च पार्थिवः
मृगमनुससाराथ मृगो दूरमपासरत्
तदाध्वनि जातश्रमः क्षुत्तृष्णाभिभूतः कस्मिंश्चिद्वनोद्देशे नीलवनमपश्यच्चाविवेश
तस्य वनखण्डस्य दक्षिणभागे सरो दृष्ट्वा साश्व एव व्यगाहत
अथाश्वस्थः सन्मृणालमश्वस्याग्रतो निक्षिप्य पुष्करिणीं समुपाविशत्
शयितस्ततः शयानो गीतमशृणोत्
स श्रुत्वाचिंतयन्नेह मनुष्यगतिं प्रपश्यामि
कस्य खल्वयं गीतशब्द इत्यवलोकयामास
अथापश्यत्कन्यां परमरूपदर्शनीयां पुष्पाणि विचिन्वंतीं चाथ राजा समीपे पर्यक्रामत् ।। ५.२.८४.
तामब्रवीद्राजा कस्यासि त्वं कन्या परमरूपदर्शनीया पुष्पाणि विचिन्वती
साथ राजसमीपे गत्वेति प्रोवाच कन्यास्मीति
राजोवाच अर्थी तवास्मीति