कपिल उवाच किं वृथा प्रियचक्रस्य विष्णो क्लेशमिहेच्छसि
ततः स मुष्टिमादाय कुशानां कपिलस्तदा
अद्य गर्वं च दर्पं च बलं यच्च तवाद्भुतम्
ततो युद्धं समभवत्तुमुलं लोमहर्षणम् ५.२.८३.
दिव्यास्त्राणां कुशानां च युद्धं समभवद्दृढम्
एतस्मिन्नंतरे ब्रह्मा सुरैः परिवृतस्तदा
भगवन्भूतभव्येश भवबंधभयापह
समाराध्य जगन्नाथ शक्रा द्यास्त्रिदिवौकसः
आब्रह्मस्तंबपर्यंतं त्रैलोक्यं सचराचरम्
तेनैकेन विशुद्धेन सर्वगेन महात्मना
वदंति कारणं चास्य त्रैलोक्यस्य जनार्द्दनः
वरार्थिभिश्च प्रवरैः पूज्यसे गरुडध्वज
कपिलस्य च विप्रस्य हराल्लब्धवरस्य च
अवध्यत्वमनुप्राप्तो ह्यजेयत्वं च संयुगे ५.२.८३.
ब्रह्म च ब्रह्मणो मूलं त्वयैव प्राक्प्रतिश्रुतम्
इत्थं निशम्य देवेशो वाक्यं ब्रह्ममुखाच्च्युतम्
जगाम परमं लोकं पूज्यमानस्त्रिविष्टपैः
युद्धं सुदारुणं श्रुत्वा कृष्णस्य कपिलस्य च कस्याहं शरणं यामि को मे त्राता भविष्यति
न जितः कपिलो युद्धे विष्णुना प्रभविष्णुना
अजेया ब्राह्मणा युद्धे शापानुग्रहकारकाः
ब्राह्मं हि परमं तेजो देवैरपि दुरासदम्
विलपंतं कृशं बिल्वं वज्र हस्तमवेक्ष्य सः
अलं शोकेन भूपाल शृणु मे वचनं परम् बलिष्ठेन सगर्वेण तदा पृष्टो मया गुरुः
बृहस्पतिर्महातेजास्तेनोक्तं तु तदा नृप ५.२.८३.
यत्र संति सुदिव्यानि लिंगानि विविधानि च
तेषां मध्ये लिंगमेकमाराधय शचीपते तस्य तद्वचनाद्बिल्व सम्यगाराधना कृता
मया लिंगस्य हर्षेण जितो वै शंबरस्तदा
तस्मात्त्वं पश्चिमामाशां गत्वा क्षेत्रस्य तस्य वै
तल्लिंगं त्रिषु लोकेषु त्वन्नाम्ना ख्यातिमेष्यति तस्य लिंगस्य माहात्म्यान्मित्रभावं गमिष्यति
इत्युक्त्वा तु गते शक्रे देवलोकं यशस्विनि