सखा मम हृषीकेश स च मामाह नित्यशः
पिशाचस्यापि यक्षस्य न चैवान्यस्य कस्यचित्
एवमुक्तस्तु बिल्वेन स देवः पुरुषोत्तमः
स प्रविश्याश्रमं देवं कपिलेन प्रपूजितः ।। ५.२.८३.
भगवन्ब्राह्मणश्रेष्ठ वेदवेदांगपारग
प्रसादितोऽहं बिल्वेन नृपेंद्रेण पुनःपुनः
त्वया प्रोक्तं बिभेमीति ब्रूहि तस्मादनुग्रहात्
कपिलस्त्वेवमुक्तो वै विष्णुना मधुरं वचः
नाहं वक्ष्ये बिभेमीति तेनोक्तं नोच्यते मया उवाच चक्रमुद्यम्य भयं विप्रस्य दर्शयन्
न चेद्वक्ष्यसि भीतोऽहं चक्रं ते प्रहरामि वै
कपिल उवाच किं वृथा प्रियचक्रस्य विष्णो क्लेशमिहेच्छसि
ततः स मुष्टिमादाय कुशानां कपिलस्तदा
अद्य गर्वं च दर्पं च बलं यच्च तवाद्भुतम्
ततो युद्धं समभवत्तुमुलं लोमहर्षणम् ५.२.८३.
दिव्यास्त्राणां कुशानां च युद्धं समभवद्दृढम्
एतस्मिन्नंतरे ब्रह्मा सुरैः परिवृतस्तदा
भगवन्भूतभव्येश भवबंधभयापह
समाराध्य जगन्नाथ शक्रा द्यास्त्रिदिवौकसः
आब्रह्मस्तंबपर्यंतं त्रैलोक्यं सचराचरम्
तेनैकेन विशुद्धेन सर्वगेन महात्मना
वदंति कारणं चास्य त्रैलोक्यस्य जनार्द्दनः
वरार्थिभिश्च प्रवरैः पूज्यसे गरुडध्वज
कपिलस्य च विप्रस्य हराल्लब्धवरस्य च
अवध्यत्वमनुप्राप्तो ह्यजेयत्वं च संयुगे ५.२.८३.
ब्रह्म च ब्रह्मणो मूलं त्वयैव प्राक्प्रतिश्रुतम्
इत्थं निशम्य देवेशो वाक्यं ब्रह्ममुखाच्च्युतम्
जगाम परमं लोकं पूज्यमानस्त्रिविष्टपैः
युद्धं सुदारुणं श्रुत्वा कृष्णस्य कपिलस्य च कस्याहं शरणं यामि को मे त्राता भविष्यति
न जितः कपिलो युद्धे विष्णुना प्रभविष्णुना
अजेया ब्राह्मणा युद्धे शापानुग्रहकारकाः