कपिल उवाच प्रवर्त्तंते क्रिया वेदाद्वेदमूलमिदं जगत्
बिल्व उवाच संसारे पार्थिवाः श्रेष्ठाः समर्था लोकपालने
पितरः पार्थिवानां तु किं त्वं बिल्व न मन्यसे
एवं कौतूहले जाते कपिलो द्विजसत्तमः ५.२.८३.
वज्रेण स द्विधा छिन्नः कपिलो ब्रह्मविद्यया
स्तुतोऽहं विविधैः स्तोत्रैः सम्यगाराधितो ह्यहम्
द्विजः समागतो बिल्वं पुनः सख्यमभूत्तयोः
वामपादेन चाप्येनं बिल्वो विप्रमताडयत्
न मृतिं न व्यथां तस्य तद्वज्रमकरोत्पुनः
नारायणमथासाद्य प्रार्थयामास चेप्सितम् प्रोवाच प्रणतो विष्णुमिदं देवि महामनाः
सखा मम हृषीकेश स च मामाह नित्यशः
पिशाचस्यापि यक्षस्य न चैवान्यस्य कस्यचित्
एवमुक्तस्तु बिल्वेन स देवः पुरुषोत्तमः
स प्रविश्याश्रमं देवं कपिलेन प्रपूजितः ।। ५.२.८३.
भगवन्ब्राह्मणश्रेष्ठ वेदवेदांगपारग
प्रसादितोऽहं बिल्वेन नृपेंद्रेण पुनःपुनः
त्वया प्रोक्तं बिभेमीति ब्रूहि तस्मादनुग्रहात्
कपिलस्त्वेवमुक्तो वै विष्णुना मधुरं वचः
नाहं वक्ष्ये बिभेमीति तेनोक्तं नोच्यते मया उवाच चक्रमुद्यम्य भयं विप्रस्य दर्शयन्
न चेद्वक्ष्यसि भीतोऽहं चक्रं ते प्रहरामि वै
कपिल उवाच किं वृथा प्रियचक्रस्य विष्णो क्लेशमिहेच्छसि
ततः स मुष्टिमादाय कुशानां कपिलस्तदा
अद्य गर्वं च दर्पं च बलं यच्च तवाद्भुतम्
ततो युद्धं समभवत्तुमुलं लोमहर्षणम् ५.२.८३.
दिव्यास्त्राणां कुशानां च युद्धं समभवद्दृढम्
एतस्मिन्नंतरे ब्रह्मा सुरैः परिवृतस्तदा
भगवन्भूतभव्येश भवबंधभयापह
समाराध्य जगन्नाथ शक्रा द्यास्त्रिदिवौकसः
आब्रह्मस्तंबपर्यंतं त्रैलोक्यं सचराचरम्
तेनैकेन विशुद्धेन सर्वगेन महात्मना