ब्रह्मणा च कृतं नाम बिल्व इत्यभिविश्रुतम्
त्रिविष्टपस्य भूमिस्थः सखाभूतो मम प्रियः
यस्याः प्रभावतः शस्त्रं रणे न प्रभविष्यति
तत्स्यां पृथिव्यां राजाहं नान्यथा रोचते मम ५.२.८३.
इंद्र उवाच एवं भवतु भद्रं ते भव राजा प्रजाहितः
स एवमुक्तस्तेजस्वी बिल्वो राजा बभूव ह
सखा बभूव बिल्वस्य तस्य विप्रर्षिसत्तमः
चक्रे कथा विचित्रार्थाः प्रीयमाणः पुनःपुनः
दानं प्रधानं तीर्थं तु बिल्वेनोक्तं पुनःपुनः
बिल्व उवाच प्राप्यते द्विजशार्दूल कथं ब्रह्म प्रशंसससि
कपिल उवाच प्रवर्त्तंते क्रिया वेदाद्वेदमूलमिदं जगत्
बिल्व उवाच संसारे पार्थिवाः श्रेष्ठाः समर्था लोकपालने
पितरः पार्थिवानां तु किं त्वं बिल्व न मन्यसे
एवं कौतूहले जाते कपिलो द्विजसत्तमः ५.२.८३.
वज्रेण स द्विधा छिन्नः कपिलो ब्रह्मविद्यया
स्तुतोऽहं विविधैः स्तोत्रैः सम्यगाराधितो ह्यहम्
द्विजः समागतो बिल्वं पुनः सख्यमभूत्तयोः
वामपादेन चाप्येनं बिल्वो विप्रमताडयत्
न मृतिं न व्यथां तस्य तद्वज्रमकरोत्पुनः
नारायणमथासाद्य प्रार्थयामास चेप्सितम् प्रोवाच प्रणतो विष्णुमिदं देवि महामनाः
सखा मम हृषीकेश स च मामाह नित्यशः
पिशाचस्यापि यक्षस्य न चैवान्यस्य कस्यचित्
एवमुक्तस्तु बिल्वेन स देवः पुरुषोत्तमः
स प्रविश्याश्रमं देवं कपिलेन प्रपूजितः ।। ५.२.८३.
भगवन्ब्राह्मणश्रेष्ठ वेदवेदांगपारग
प्रसादितोऽहं बिल्वेन नृपेंद्रेण पुनःपुनः
त्वया प्रोक्तं बिभेमीति ब्रूहि तस्मादनुग्रहात्
कपिलस्त्वेवमुक्तो वै विष्णुना मधुरं वचः
नाहं वक्ष्ये बिभेमीति तेनोक्तं नोच्यते मया उवाच चक्रमुद्यम्य भयं विप्रस्य दर्शयन्
न चेद्वक्ष्यसि भीतोऽहं चक्रं ते प्रहरामि वै