बद्धः प्राचेतसो दक्षः पाशेन सुदृढेन च
वृत्तांतः कथितः सर्वो विस्तरेण यथा तथा
नष्टाश्च वसवो देवाः पीडिता भास्करा रणे वरुणो यादसां नाथः क्व गतः परमेश्वरः
भद्रकाल्या हतं सर्वं वीरभद्रगणेन च
प्रदीपिता महाशाला भग्नं वै यज्ञतोरणम् आजगाम कृपाविष्टो यत्राहं मन्दरे स्थितः
स्तुतिं कृत्वा मदीयां तु वाक्यमुक्तमिदं तदा
भद्रकाल्या महादेव वसवो जर्जरीकृताः
कायावरोहणं देव तुषितानां कथं भवेत्
महाकालवने क्षेत्रे गच्छन्तु तुषितास्त्वमी
ब्राह्मणाश्च ममादेशाच्चतुःशिष्यैः समन्विताः ५.२.८२.
तत्र कायमनुप्राप्ता मम शिष्या ममो पमाः
क्षेत्रस्य दक्षिणे तस्य विद्यते लिंगमुत्तमम्
प्रसादात्तस्य लिंगस्य कायान्प्राप्स्यंत्यमी सुराः
मुदिता ब्रह्मणा सार्द्धं यत्र तल्लिंगमुत्तमम्
पुनस्ते तादृशा जातास्तुषिता यादृशाऽभवन् समीहितप्रदो नित्यं ख्यातो देवो भविष्यति
ये गत्वा दक्षिणामाशां देवं कायावरोहणम्
जन्मकोटिसहस्रैस्तु यत्पापं समुपार्जितम्
स्वकर्मणा गता ये च नरके पितरो गणाः
ये पश्यंति प्रसंगेन देवं कायारोहणम्
स्पर्शनात्तस्य लिंगस्य पापिनोपि हि ये नराः ५.२.८२.
शाठ्येन पूजितो देवः कायावरोहणेश्वरः
द्वादश्यां ये प्रपश्यंति स्नात्वा कायावरोहणम्
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्य उमामहेश्वरसंवादे कायावरोहणेश्वरमाहात्म्यवर्ण नंनाम द्वयशीतितमोऽध्यायः
यस्य श्रवणमात्रेण मुच्यते सर्वपातकैः
आदिकल्पे महादेवि लोकानामनुकम्पया
तेषां मध्ये बिल्ववृक्षः श्रीवृक्ष इति गीयते
उपविष्टस्तदा दृष्टो ब्रह्मणा लोककर्तृणा
भक्षयत्यतिसंहृष्टो हद्यानि च मृदूनि च
खङ्गी किरीटमाली च कुण्डली कवची तथा