अहं हि देवदेवस्य शंभोरव्याहतो जनः
तत्र गत्वा तपस्तीव्रं कृत्वा शंभुं प्रसाद्य च
इति सर्वान्विसृज्याशु सद्भक्तान्पादसेविनः
नित्याभिसेविताऽकारि सखीभिरभियोगतः
अंतस्तेजोमयं शांतमरुणाचलनायकम्
प्रणम्य स्थावरं लिंगं कौतूहलसमन्विता
अत्रिर्भृगुर्भरद्वाजः कश्यपश्चांगिरास्तथा
तपः कुर्वंति सततमपेक्षितवराप्तये 1.3.1.4.
दिव्यलिंगमिदं पूज्यमरुणाद्रिरिति स्मृतम्
अभ्यर्थिता पुनः सर्वैरातिथ्यार्थे महर्षिभिः
अयमत्रर्षिभिर्भक्तैर्निर्दिष्टं तमथाभ्यगात्
वनांतरं गतेः प्रातः समित्कुशफलाहृतेः
शिष्यानादिश्य धर्मात्मा गतश्च विपिनांतरम्
क्व गतो मुनिरित्युक्तैरित आयास्यति क्षणात्
अभ्युत्थानेनासनेन पाद्येनार्घेण सूनृतैः
क्षणं क्षमस्वसूनुस्तामन्ये जग्मुस्तदन्तिकम्
अभवत्कल्पबहुलो मणिप्रासादसंकुलः
अपश्यत्स्वाश्रमं दूरे विमानशतशोभितम् 1.3.1.4.
गौर्याः समागमं सर्वमपश्यज्ज्ञानचक्षुषा
शिष्यैः शीघ्रचरैर्वृत्तमावेदितमथाशृणोत्
अथ महर्षिरुपागतकौतुको निजतपःफलमेव तदागमम्
प्रत्याधातुं प्रववृते शिवभक्तिर्जगन्मयी
आलुलोके समायातं गौतमं शिष्यसेवितम्
जटाभिरतिताम्राभिस्तीर्थस्नानविशुद्धिभिः
भस्मत्रिपुण्ड्रकोपेतविशालनिटिलोज्वलम्
दधानं वल्कले रक्ते तपः कृशितविग्रहम्
शम्भुनावसितोदात्तसारूप्यमिव भाषितम्
आलोक्य तं महात्मानं वृद्धं शंभुपदाश्रयम्
कृतांजलिं मुनिर्वीक्ष्य समस्तजगदम्बिकाम्
स्वागतं गौरि सुभगे लोकमातर्दयानिधे