कृतं नाम त्वया देवि तां दृष्ट्वा च तमोमयीम्
मया सृष्टस्तु पुरुषस्तादृशो लोमहर्षणः आज्ञापय सुरेशान किं करोमि जगत्प्रभो
ततो देवि मयाज्ञप्तो भावं ज्ञात्वा त्वदीयकम्
वीरभद्र ममादेशाद्भद्रकाल्या सहानया
विध्वंसय गणाध्यक्ष सयज्ञं सपरिग्रहम्
त्वयापि भद्रकाल्यास्तु दत्तं सैन्यं भयावहम्
ततस्तौ तेन सैन्येन महतातिसमावृतौ
देवैः परिवृतो देवि सदस्यैर्ब्राह्मणैः सह विश्रब्धा मंत्रपूतं तु पिबंतः सोममध्वरे
त्रिनेत्रेण त्रिशूलेन त्रिदशाधिप ईश्वरः
यमाख्येन गणेनैव यमकल्पप्रभेण च ५.२.८२.
पाशेन वरुणो बद्धः पाशेन गणपेन तु
ताडितोऽनिल एवाथ उत्तरे नरवाहनः वीरभद्रनियुक्तास्ते चक्रुर्युद्धं सुदारुणम्
अथ युद्धं चकारो च्चैर्भद्रकाली भयावहा
प्रज्वालज्वलनाकारा शुष्कमांसातिभैरवा
कपालकर्त्रिकाहस्ता जघ्नुर्देवगणास्तदा दृष्ट्वाभ्युपगता देवास्तुषिता युद्धलालसा
केचिच्च चिक्षिपुः शक्तीः केचित्प्रासांस्तथापरे
अर्द्दितो मातृसंघस्तु पीडिताः प्रमथा यदा
खड्गादिभिः षडर्कांशुः पीडयामास संयुगे
करान्दिनकरस्यैव चरणौ भास्करस्य च
वमन्तो रुधिरं तेऽपि नष्टा जर्जर मस्तकाः ५.२.८२.
बद्धः प्राचेतसो दक्षः पाशेन सुदृढेन च
वृत्तांतः कथितः सर्वो विस्तरेण यथा तथा
नष्टाश्च वसवो देवाः पीडिता भास्करा रणे वरुणो यादसां नाथः क्व गतः परमेश्वरः
भद्रकाल्या हतं सर्वं वीरभद्रगणेन च
प्रदीपिता महाशाला भग्नं वै यज्ञतोरणम् आजगाम कृपाविष्टो यत्राहं मन्दरे स्थितः
स्तुतिं कृत्वा मदीयां तु वाक्यमुक्तमिदं तदा
भद्रकाल्या महादेव वसवो जर्जरीकृताः
कायावरोहणं देव तुषितानां कथं भवेत्
महाकालवने क्षेत्रे गच्छन्तु तुषितास्त्वमी
ब्राह्मणाश्च ममादेशाच्चतुःशिष्यैः समन्विताः ५.२.८२.