यस्याः श्रवणमात्रेण न नरः कायवान्भवेत्
ब्रह्मणः सृष्टिकामस्य मनोवर्वैस्वतेंऽतरे
वामादजायतांगुष्ठाद्भार्या तस्य महात्मनः
ताः सर्वाश्चानवद्यांगीः कन्याः कमललोचनाः
ददौ स दश धर्माय कश्यपाय त्रयोदश
रोहिणी वल्लभा जाता तस्य चन्द्रस्य सर्वदा
चंद्रेणापि तथा शप्तो दक्षः प्राचेतसः कृतः
नामंत्रितोऽहं मोहेन दक्षेण पर्वतात्मजे
हव्यवाहस्तदा युक्तो वहन्मंत्रैः समीरितः
स्मरंत्या पूर्ववैरं तु विज्ञप्तोऽहं त्वया प्रिये ५.२.८२.
त्वं यज्ञस्त्वं वषट्कारो होताऽध्वर्युस्त्वमेव च
देवानां भागधेयानि वहत्यग्निरयं भयात्
अनुस्मरन्पूर्ववैरं नैव दास्यत्यशासितः
ये च यज्ञे समानीता देवा दक्षस्य शंकर
एवमुक्ते त्वया देवि मयाप्युक्तं वरानने
वह्निश्चादेशकारी च देवाः क्रीडनकाः प्रिये
ललाटे भ्रुकुटीं कृत्वा प्रोच्छ्वसंत्या पुनःपुनः
तस्मिन्संमर्द्यमाने तु नासाग्रे पर्वतात्मजे
बद्धगोधांगुलित्रा च कवचाबद्धमेखला
सहस्रास्या शतभुजा सहस्रचरणोदरी ५.२.८२.
कृतं नाम त्वया देवि तां दृष्ट्वा च तमोमयीम्
मया सृष्टस्तु पुरुषस्तादृशो लोमहर्षणः आज्ञापय सुरेशान किं करोमि जगत्प्रभो
ततो देवि मयाज्ञप्तो भावं ज्ञात्वा त्वदीयकम्
वीरभद्र ममादेशाद्भद्रकाल्या सहानया
विध्वंसय गणाध्यक्ष सयज्ञं सपरिग्रहम्
त्वयापि भद्रकाल्यास्तु दत्तं सैन्यं भयावहम्
ततस्तौ तेन सैन्येन महतातिसमावृतौ
देवैः परिवृतो देवि सदस्यैर्ब्राह्मणैः सह विश्रब्धा मंत्रपूतं तु पिबंतः सोममध्वरे
त्रिनेत्रेण त्रिशूलेन त्रिदशाधिप ईश्वरः
यमाख्येन गणेनैव यमकल्पप्रभेण च ५.२.८२.