यस्माच्च मम पुत्रेण सा वियोगमकारयत्
बहिष्कृता विवाहेन पितृहीना भविष्यसि
इदं दुःखमनुप्राप्ता कन्यका भवती सती
तस्माद्ब्रूहि भवन्प्रश्नं पृच्छंत्या निश्चयं स्वकम् ।। 5.2.81.
इत्थं सुघोरपापाहं पापाचारा तथाऽधमा
दशसूनासमश्चक्री दशचक्रिसमो ध्वजः
एवं वदंति धर्मज्ञा ब्राह्मणाः संशितव्रताः
उत्पन्ना तत्र वक्ष्यामि कारणं शृणु पिंगले
ब्राह्मणो विषयासक्तः कश्चिद्बद्धो नृपाज्ञया
मुच्यतां च त्वयाप्युक्तं न चौरो नैव पातकम्
ददामि वित्तमधिकं मुच्यतां द्विजसत्तमः
गृहं च कल्पितं शुभ्रं पुष्पधृपादिवा सितम्
तस्य पुण्यस्य माहात्म्याद्गता स्वर्गमनुत्तमम्
परद्रव्यपरा दुष्टा शौचाचारविवर्जिता
पाणिग्रहणधर्मेण वर्जिता शापतः प्रभो
कथं जन्म न मे भूयात्कथं मुक्तिर्भवेन्मम
ममोपदेशात्तन्वंगि लिंगस्यैकस्य दर्शनात्
लभ्यते सहसा धर्म एतदिच्छामि वेदितुम्
सर्वेषामेव जंतूनां हेतुर्मोक्षस्य सर्वदा
तस्मिन्क्षेत्रवरे पुण्ये स्थाने योजनविस्तृते तस्य दर्शनमात्रेण मुक्तिमाप्स्यसि पिंगले
तस्य तद्वचनं श्रुत्वा धर्मस्य च यशस्विनि ददर्श परया भक्त्या पस्पर्श च पुनःपुनः
दर्शनात्तस्य लिंगस्य तस्मिल्लिंगे लयं गता
अन्यजन्मनि पापिष्ठा मुक्ता त्वं पिंगलेक्षणा ।। 5.2.81.
अतो लोकेषु विख्यातः पिंगलेश्वरसंज्ञकः
दिशि पश्यंति ये गत्वा पूर्वस्यां पिंगलेश्वरम्
देवा वश्या भविष्यंति स्वर्गस्तेषां न संशयः
धर्मो धनेन सहितः कुले तेषां न नश्यति पितॄणामक्षया तृप्तिर्भविष्यति न संशयः
अश्वमेधसहस्रेण यत्पुण्यं समुदाहृतम्
यानि लिंगानि क्षेत्रेऽस्मिन्गोप्यानि प्रकटानि च
एष ते कथितो देवि प्रभावः पापनाशनः