त्वां विहाय गतः क्वापि पश्य बाले विधेर्बलम्
एवमीहा समासक्तं मृत्युः प्रकुरुते वशे
पितृभ्यां च वियोगश्च येनाभूत्तव कर्मणा
नृत्यगेयादि निपुणा वीणावेणुविचक्षणा 5.2.81.
तां दृष्ट्वा रूपसंपन्नां सुवेषां सुविभूषिताम्
तं विदित्वा तथाभूतं ब्राह्मणं मदनातुरम्
सोऽथ पापरतिर्मूढो ब्राह्मणो विषयात्मकः
विहाय भार्यामप्रौढां शुभां द्वादशवार्षिकीम्
ततस्तस्य पिता विद्वान्मातातीव च दुःखिता
यदस्माकं वियोगाय वंचितो दुष्टचारिणि
यस्माच्च मम पुत्रेण सा वियोगमकारयत्
बहिष्कृता विवाहेन पितृहीना भविष्यसि
इदं दुःखमनुप्राप्ता कन्यका भवती सती
तस्माद्ब्रूहि भवन्प्रश्नं पृच्छंत्या निश्चयं स्वकम् ।। 5.2.81.
इत्थं सुघोरपापाहं पापाचारा तथाऽधमा
दशसूनासमश्चक्री दशचक्रिसमो ध्वजः
एवं वदंति धर्मज्ञा ब्राह्मणाः संशितव्रताः
उत्पन्ना तत्र वक्ष्यामि कारणं शृणु पिंगले
ब्राह्मणो विषयासक्तः कश्चिद्बद्धो नृपाज्ञया
मुच्यतां च त्वयाप्युक्तं न चौरो नैव पातकम्
ददामि वित्तमधिकं मुच्यतां द्विजसत्तमः
गृहं च कल्पितं शुभ्रं पुष्पधृपादिवा सितम्
तस्य पुण्यस्य माहात्म्याद्गता स्वर्गमनुत्तमम्
परद्रव्यपरा दुष्टा शौचाचारविवर्जिता
पाणिग्रहणधर्मेण वर्जिता शापतः प्रभो
कथं जन्म न मे भूयात्कथं मुक्तिर्भवेन्मम
ममोपदेशात्तन्वंगि लिंगस्यैकस्य दर्शनात्
लभ्यते सहसा धर्म एतदिच्छामि वेदितुम्
सर्वेषामेव जंतूनां हेतुर्मोक्षस्य सर्वदा
तस्मिन्क्षेत्रवरे पुण्ये स्थाने योजनविस्तृते तस्य दर्शनमात्रेण मुक्तिमाप्स्यसि पिंगले