द्वाराणि तत्र चत्वारि क्रियतां परमेश्वर
पूर्वादिक्रमयोगेन चतुर्वर्गो नियोज्यताम्
त्वदीयं वचनं श्रुत्वा मया देवि प्रयत्नतः
चत्वार ईश्वरास्तेऽपि स्थापितास्तदनंतरम् 5.2.81.
बिल्वेश्वरो गणश्रेष्ठो दुर्दर्शो गण नायकः
पूर्वादिक्रमयोगेन त्वत्प्रियार्थं वरानने
दक्षिणस्यां दिशि तथा प्रिये कायावरोहणः
मानवा ये म्रियंतेऽत्र क्षेत्रमध्ये गणो त्तमाः
कथां शृणु प्रयत्नेन पिंगलेश्वरसंभवाम्
पिंगला कन्यका देवि कान्यकुब्जे बभूव ह
पिता तस्या महाप्राज्ञः सर्वशास्त्रार्थतत्त्व वित्
पिंगलोनाम विप्रेंद्रो भार्या तस्य पतिव्रता
ततस्तेन स दुःखेन गृहस्थाश्रमनिःस्पृहः
ऋषिभिः सेवितं पुण्यं शाकमूल फलाशनैः 5.2.81.
निवासं कृतवान्देवि पिंगलायाश्च रक्षणम्
तामेव सततं साध्वी मन्यमानो महातपाः
विरक्तोऽपि महाभाग संसारा त्सर्वधर्म्मवित्
अथ संरक्षयन्बालां मातृहीनां तपस्विनीम्
ततः सा र्पिगला दीना हीना पित्रा सुदुःखिता
पिंगलोवाच अद्य मे च पिता दैवात्कालधर्ममुपेयिवान्
स समः सर्वभूतेषु ममात्यंतं हिते रतः
साऽहं परमदुःखार्ता पितृशोकेन विह्वला
ब्रह्मज्ञोपि हि तातो मे शांतो दांतो जितेंद्रियः
येन संरक्षिता बाल्ये येनास्मि परिवर्धिता 5.2.81.
नद्यां वा निपतिष्यामि समिद्धे वा हुताशने
इति शोकातुरा बाला विलपंती पुनःपुनः
कन्यकाभी रुदंतीभिर्वयस्याभिः समंततः आगत्य करुणाविष्टो धर्मः परहिते रतः
स्थविरो ब्राह्मणो भूत्वा प्रोवाचेदं वचस्तदा न भूयः प्राप्यते तातस्तस्मान्नार्हसि शोचितुम्
अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः
त्वया वै तत्कृतं कर्म पूर्वजन्मनि शोभने