तिर्यग्योनिगता गत्वा महाकालवने स्थिताः
मेरुमंदरमात्रोपि राशिः पापस्य कर्मणः
श्मशानमिति चाख्यातं महाकालवनं प्रिये
योगिनश्च तथा सांख्याः सिद्धाश्च सनकादयः 5.2.81.
या गतिर्योगतपसां या गतिर्यज्ञयाजिनाम्
संहरामि च तत्रस्थस्त्रैलोक्यं सचराचरम्
एवं बहुविधाञ्छुत्वा गुणान्बहुविधांस्तथा
क्षेत्रस्यालोकने चित्तं जातमुत्कंठितं तव
पश्य देवि विचित्राख्यं यन्मया कथितं तव वर्णितं यन्मया देवि भुक्ति मुक्तिकरं परम्
त्वया प्रोक्तं विशालाक्षि दृष्ट्वा क्षेत्रमनुत्तमम् नियुज्यतां महादेव संतोषाय मम प्रभो
द्वाराणि तत्र चत्वारि क्रियतां परमेश्वर
पूर्वादिक्रमयोगेन चतुर्वर्गो नियोज्यताम्
त्वदीयं वचनं श्रुत्वा मया देवि प्रयत्नतः
चत्वार ईश्वरास्तेऽपि स्थापितास्तदनंतरम् 5.2.81.
बिल्वेश्वरो गणश्रेष्ठो दुर्दर्शो गण नायकः
पूर्वादिक्रमयोगेन त्वत्प्रियार्थं वरानने
दक्षिणस्यां दिशि तथा प्रिये कायावरोहणः
मानवा ये म्रियंतेऽत्र क्षेत्रमध्ये गणो त्तमाः
कथां शृणु प्रयत्नेन पिंगलेश्वरसंभवाम्
पिंगला कन्यका देवि कान्यकुब्जे बभूव ह
पिता तस्या महाप्राज्ञः सर्वशास्त्रार्थतत्त्व वित्
पिंगलोनाम विप्रेंद्रो भार्या तस्य पतिव्रता
ततस्तेन स दुःखेन गृहस्थाश्रमनिःस्पृहः
ऋषिभिः सेवितं पुण्यं शाकमूल फलाशनैः 5.2.81.
निवासं कृतवान्देवि पिंगलायाश्च रक्षणम्
तामेव सततं साध्वी मन्यमानो महातपाः
विरक्तोऽपि महाभाग संसारा त्सर्वधर्म्मवित्
अथ संरक्षयन्बालां मातृहीनां तपस्विनीम्
ततः सा र्पिगला दीना हीना पित्रा सुदुःखिता
पिंगलोवाच अद्य मे च पिता दैवात्कालधर्ममुपेयिवान्