ये च पुष्पैर्विचित्रैश्च पूजयन्ति च पर्वसु दीर्घायुषः शुभाचारा जायन्ते देहिनोऽमलाः
एते च ब्रह्मविष्ण्विंद्रकुबेरदहनादयः
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे उमामहेश्वरसंवादे स्वप्नेश्वरमाहात्म्यवर्णनं नामाशीतितमोऽध्यायः
यस्य दर्शनमात्रेण कृतकृत्यो नरो भवेत्
अहं पृष्टस्त्वया देवि कौतुकाच्च वरानने
सेवितं बहुभिः सिद्धैः पुनरावृत्तिकांक्षिभिः
अनन्यसदृशं दिव्यं यत्तीर्थं यत्तपोवनम्
सुवर्णशृंगाः प्रासादा हर्म्याणि विविधानि च
समीहितफलावाप्तिर्यत्र लभ्या सुखेन वै
पुण्यलोको पमस्थानं त्रिविष्टपविभूषणम्
मया प्रोक्तं प्रसन्नेन स्थानं शृणु सनातनम्
अनौपम्यगुणोपेतं भुक्तिमुक्तिकरं शुभम्
देवगन्धर्व्वसिद्धैश्च सेव्यं वै मुक्तिकांक्षिभिः 5.2.81.
तिलकं सर्वतीर्थानां जंबूद्वीपे मनोरमे
जरारोगभयैर्हीनं सर्वव्याधिविवर्जितम् स्वर्गे प्रमुदिता देवास्तेऽपि कांक्षंति सर्वदा
असंख्येयफलं त्वत्र अक्षया च गतिः सदा
क्षेत्रस्य च गुणान्वक्तुं देवदानवमानवैः
यत्किंचिदशुभं कर्म कृतं मानुषकर्मणा
न सा गतिः कुरुक्षेत्रे गंगाद्वारे त्रिपुष्करे
तिर्यग्योनिगता गत्वा महाकालवने स्थिताः
मेरुमंदरमात्रोपि राशिः पापस्य कर्मणः
श्मशानमिति चाख्यातं महाकालवनं प्रिये
योगिनश्च तथा सांख्याः सिद्धाश्च सनकादयः 5.2.81.
या गतिर्योगतपसां या गतिर्यज्ञयाजिनाम्
संहरामि च तत्रस्थस्त्रैलोक्यं सचराचरम्
एवं बहुविधाञ्छुत्वा गुणान्बहुविधांस्तथा
क्षेत्रस्यालोकने चित्तं जातमुत्कंठितं तव
पश्य देवि विचित्राख्यं यन्मया कथितं तव वर्णितं यन्मया देवि भुक्ति मुक्तिकरं परम्
त्वया प्रोक्तं विशालाक्षि दृष्ट्वा क्षेत्रमनुत्तमम् नियुज्यतां महादेव संतोषाय मम प्रभो