राजसंपत्करं दिव्यं पुत्रपौत्रविवर्द्धनम् तस्य दर्शनमात्रेण विपाप्मा च भविष्यसि
दुःस्वप्नजं भयं घोरं विनंक्ष्यति न संशयः
इत्युक्तो गुरुणा भूयो वशिष्ठेन महात्मना ददर्श तत्र तल्लिंगं दुष्टदुःस्वप्ननाशनम्
नष्टाः सर्वेपि दुःस्वप्नाः सुस्वप्नाश्चाभवंस्तदा अयोध्यायां गतो राज्यं चकार मुदितस्तदा
तदाप्रभृति देवोऽयं सुस्वप्नेश्वरसंज्ञकः
अष्टम्यां च चतुर्दश्यां देवं स्वप्नेश्वरं शिवम् आजन्मप्रभवं तेषां दुःस्वप्नं च विनश्यति
स एव सर्वदा पूज्य इह लोके परत्र च
यं यं काममभिध्याय मनसाभिमतं नरः
नियमेन प्रपश्यंति देवं स्वप्नेश्वरं सदा 5.2.80.
भक्तिहीनः क्रियाहीनो यः पश्यति प्रसंगतः
ये च पुष्पैर्विचित्रैश्च पूजयन्ति च पर्वसु दीर्घायुषः शुभाचारा जायन्ते देहिनोऽमलाः
एते च ब्रह्मविष्ण्विंद्रकुबेरदहनादयः
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे उमामहेश्वरसंवादे स्वप्नेश्वरमाहात्म्यवर्णनं नामाशीतितमोऽध्यायः
यस्य दर्शनमात्रेण कृतकृत्यो नरो भवेत्
अहं पृष्टस्त्वया देवि कौतुकाच्च वरानने
सेवितं बहुभिः सिद्धैः पुनरावृत्तिकांक्षिभिः
अनन्यसदृशं दिव्यं यत्तीर्थं यत्तपोवनम्
सुवर्णशृंगाः प्रासादा हर्म्याणि विविधानि च
समीहितफलावाप्तिर्यत्र लभ्या सुखेन वै
पुण्यलोको पमस्थानं त्रिविष्टपविभूषणम्
मया प्रोक्तं प्रसन्नेन स्थानं शृणु सनातनम्
अनौपम्यगुणोपेतं भुक्तिमुक्तिकरं शुभम्
देवगन्धर्व्वसिद्धैश्च सेव्यं वै मुक्तिकांक्षिभिः 5.2.81.
तिलकं सर्वतीर्थानां जंबूद्वीपे मनोरमे
जरारोगभयैर्हीनं सर्वव्याधिविवर्जितम् स्वर्गे प्रमुदिता देवास्तेऽपि कांक्षंति सर्वदा
असंख्येयफलं त्वत्र अक्षया च गतिः सदा
क्षेत्रस्य च गुणान्वक्तुं देवदानवमानवैः
यत्किंचिदशुभं कर्म कृतं मानुषकर्मणा
न सा गतिः कुरुक्षेत्रे गंगाद्वारे त्रिपुष्करे