ताडितो हदयेत्यर्थं चरणैर्वज्रसंनिभैः
करालैः कंटकैः कृष्णैः पुरुषैरुद्यतायुधैः
एवमेतन्मया दृष्टमिमांरात्रिं भयावहाम्
इमां तु दुःस्वप्नगतिं निरीक्ष्य वै ह्यनेकरूपामविचिंतितां पुरा
नृपस्य वचनं श्रुत्वा अमात्या भृशदुःखिताः
सौरि सूर्यकुजाक्रांतं नगरं दृश्यतेऽधुना
करणानि न शस्यंते मुहूर्त्ता दारुणाभवन्
आश्वासयंतो राजानमिदं वचनमब्रुवन्
दृश्यंते भाविताः पुंसि स्वप्ने धातुवशेन हि 5.2.80.
एभिस्ततो मोक्ष्यसे त्वं मानसादधिविभ्रमात्
एवमाश्वासितो भूपो ह्यमात्यैर्धर्मकोविदैः
वशिष्ठस्य सुतो ज्येष्ठः शक्ति र्वै भक्षितो मया
तेन पापेन संतप्तः कथं स्वस्थो भवामि वै
मया पुनर्नृशंसेन सा तथा न तु वर्जिता राक्षसोऽहमनेनैव शरीरेण कुलांतकृत्
जातः कुले रघूणां वै पापात्मा पापसंभवः
इति तस्य वचः श्रुत्वा सौदासस्य सुविस्मिताः
अहो पापमिदं भूरि कृतं पापेन सर्वथा
तस्मादद्यैव गंतव्यमस्य भूपस्य कारणात्
इत्युक्त्वा सहितास्तेन तेऽमात्या भृशदुःखिताः 5.2.80.
अदृश्यंतीं वधूं दीनां यत्राश्वासयति प्रभुः भयसंविग्नया वाचा वशिष्ठमिदमब्रवीत्
असौ मृत्युरिवोग्रेण दण्डेन वहुगर्वितः
तन्निवारयितुं शक्तो नान्यो वै भुवि कश्चन
त्राहि मां भग वन्पापादस्माद्दारुणदर्शनात्
नैतद्रक्षो भयं यस्मात्पश्यसि त्वमुपस्थितम्
स एषोऽस्मिन्वनोद्देशे समा यातो ममांतिकम् वारयामास तेजस्वी हुंकारेण नृपोत्तमम्
मन्त्रपूतेन च ततः समभ्युक्ष्य च वारिणा
प्रतिलभ्य ततः संज्ञामभिवाद्य कृतांजलिः
सौदासोऽहं महाभाग दासोऽहं तव सुव्रत
तस्य तद्वचनं श्रुत्वा नृपस्य द्विजसत्तमः राजानं प्रत्युवाचेदं विनयावनतं तथा ।। 5.2.80.
ज्ञातमेव यथाकालं गच्छ राजन्कुश स्थलीम्